Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः यददापि दूषणं प्रमाणलक्षणममिश्चितं निश्चितं वा अभिधीयेत इत्यादि सदपि सिद्धसाध्यतामध्यप्रतिबद्धत्वान्न बाधाविधायि अस्माकमिति मन्तव्यम् । म्यामूढमनसोऽपि प्रति प्रमाणलक्षणप्रकाशने तल्लगतीति चेत् , न, स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात् , तस्य व्यामोहापोह एव व्यापारात् । यथा विविक्तभूतलावलोकनेऽपि अध्यक्षाद् यो घटादिवैविक्त्यं न प्रतिपद्यते, कुदर्शनव्यामोहात् , तं प्रत्युच्येत नास्त्यत्र घटः, उपलम्भकारणसमग्रतायामप्यनुपलम्भात् । वैविक्त्यं हि तत्राध्यक्षसिद्धम् , वचनाद् व्यामोहो निवत्यंत ; तथेहापि विद्वद्भिद्रष्टव्यम् । नितिं तल्लक्षणमध्यक्षेण, तस्य व्यवसायरूपत्वात्; वचनं पुनर्विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम् । तदेवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतकुचोधं पर्यहार्याचार्येण ॥३॥ ___ अधना तद्विषयामेव ख्याविप्रतिपत्तिं निराचिकीर्षता ये प्रत्यक्षपरोक्षलक्षणे प्रमाणव्यक्ती प्राक् प्रक्रान्ते, तयोरपि लक्षणं प्रति विप्रतिपद्यन्तेऽपरे । अतस्तल्लक्षणमपि वक्तव्यम् , इति तावत् प्रत्यक्षलक्षणमभिधातुकाम आह अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षामितरज्यं परोक्षं ग्रहणेक्षया ॥४॥ तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः, अवगम्यते इति हृदयम् । अयंत इत्यथों वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहक व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदृशमिति, ईदृगेव प्रत्यक्षमिति संटङ्कः। तत्र ज्ञानग्रहणेन यत् सांख्याः प्राइ:- श्रोत्रादिवत्ति प्रत्यक्षमिति, तत् तिरस्करोति। श्रोत्रादीनां प्रकृति. विकारतया तद्वत्तेर्व्यापारलक्षणाया जडतया प्रत्यक्षत्वायोगात्, अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापब्यापारस्यापि प्रत्यक्षतापधेत, विशेषाभावादिति । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षया इति वक्ष्यमाणपदसापेक्षवात् । सिद्धसाध्यतामध्यप्रतिबद्धत्वादिति । अयमभिप्रायः-यदि न प्रमाणलक्षणममिधीयतेऽस्माभिस्तदा यदुक्तं - प्रमाणलक्षणमनिश्चितं विधानं वाभिधीयेत इत्यादि तत्समस्तमपि दूषणमस्माकं लगेदपि, यदा तु स्वतः सतो व्यवसायरूपत्वात् स्वसंवेदनेन निणीतस्य च प्रमाणलक्षणस्य व्यामूढान् प्रति प्रकाशः, कस्तदा दोषावकाशः ? एतच्च व्यामूढमनसोऽपि प्रतीत्यादि पूर्वपक्षमुत्थाप्य स्वत एवातिस्पटभाचार्योऽभिधास्यति, ततः स्थितमेतत् न बाधाविधायीति ॥ ३ ॥ श्रोत्रादीति । श्रोत्रं त्वक् चक्षुषो जिह्वा नासिका पति पञ्चमी- इते श्रोत्रार्दानीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत् । इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । अर्थस्य ग्राहकमित्यादि । ग्रहणेक्षयेत्यनेन बाह्यार्थापेक्षया vvvvvvvvvv For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110