Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः २७ लक्षणम् , लक्षणोपेतं वा। अलक्षणं चेशिवायकं प्रमाणम् , तर्हि सर्वप्रमाणानां बक्षणाभिधानमनर्थकम् , तद्व्यतिरकेणाप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्वायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्रितमनिश्चितं वा । न तावदनिश्चितं लक्षणं लक्ष्य लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा । अप्रमाणान्निश्चयासिद्धेः प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा । अलक्षणत्वे पूर्वस्यार्थग्रहणे किं क्षणम् । सलक्षणस्वे स्खेतलक्षणं निर्णीतमनिर्णीतं चेति तदेवावर्तते । तत्र प्रमाणलक्षणाभिधानोपायोऽस्ति, तस्मात्प्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यमिति ॥२॥ अधुना धायगृहीतस्तावकीनोऽभिप्रायोऽस्माभिरिति परं प्रत्याययंस्तन्मत. मनुद्राव्य तदेवानुमन्यमानस्तथापि लक्षणोक्तेः साफल्यमावेदयम्नाह - प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्वयामोहनिवृत्तिः स्याद्वयामूढमनसामिह ॥ ३॥ एतदभ्यधायि भवता यथा-प्रसिद्धानि प्रमाणानि, ततस्तेषां लक्षणोक्ती असा. धारणधर्मकथनविषये प्रयोजनं फलं, किमिति शेषः । तदेतदयुक्तम् । यतो यद्यपि प्रतिप्राणि प्रसिद्धानि प्रमाणानि, अन्यथा तस्कृतनिखिलव्यवहारोच्छेदप्रसनात् , सदु. छेदे च दृष्टहान्याधापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तःकरणास्तत्स्वरूपमनभवन्तोऽपि न लक्षयन्ति ततस्तानवलोकयतामस्माकं तद्विषये कृपापरीतचंतसा यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहमेतेषामपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः। तदिदं प्रयोजनम् - तव्यामोहनिवृत्तिः स्याइति, तस्मिन् प्रमाणलक्षणे व्यामोहो विपरीताभ्युपगमवतां विपर्यासलक्षणस्तीर्थ्यांना प्रमाणाप्रमाणविवेकविकलानाम् , अनध्यवसायात्मकस्तु मुग्धबुद्धीनां लौकिकानाम् , तस्य निवृत्तिरविपरीतलक्षणावगमादपगम इत्यर्थः । सा स्याद् भवेत् । केषामित्याह- ज्यामुढं विपरीतग्रहग्रस्तं विचित्ततां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम् । इहेति लोके। तदयं तात्पर्यार्थः - यथनादिप्रसिद्धं प्रमाणलक्षणं प्रति केचिदपि न व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणाभिधानमिति, तत् युक्तमेव स्यात् । न चैतदेवम् , तत्र व्यामूढानां दर्शनात् । एतेन __ तन्मतमनुद्राव्येति । षु सु द्रु ह ऋच्छ गम सृ पृ गती अनुद्रवत्यनुगच्छति तन्मतम् , सिद्धान्ती प्रयुङ्क्ते, हेतौ इति क्त्वाप्रत्यये अनुगमय्येति शब्दार्थः; तन्मतस्य चानुगमनमनुवादमन्तरेण न संभवतीत्यन्येति तात्पर्यम् । यद्वा उत्पाबल्येन द्रावणं-स्फेटनं पर्वमुद्द्राव्य ततो नञ्योगादि, निराकृयेत्यर्थः । तीर्थ्यानामिति । यद्यपि सम्यक् संसारसागरोत्तरणोपायभूतत्वात् तीर्थ जिनशासनमेवोच्यते, तथापि तीर्थमिव तीर्थम्, तत्र साधवः तीर्थ्याः, साध्वर्थे यः । एतेनेति । व्यामूढमनसः प्रतिलक्षणाभिधानेन । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110