Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org न्यायावतारः Acharya Shri Kailassagarsuri Gyanmandir ग्रहणप्रवण स्त्रिक। लगोचरं । ऽव्यभिचारी वितर्कोऽभ्युपगन्तव्यः । तथा च प्रस्तुतद्वैविध्यस्य विघटितत्वात्, अन्यदपि यदेवंविधमविसंवादि ज्ञानं तत्प्रमाणमस्तु इत्यलं शुष्काभिमानेनेति । यदि पुनः साध्यार्थान्यथानुपपन्नहेतुसंपादितमनुमानमिष्येत, तदा प्रत्यक्षमनुमानं चेत्यपि द्वैविध्यं घट मदेदेव ; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमानेऽन्तर्भाव संभवात्, अन्यथानुपपन्नार्थान्तरमन्तरेण परोक्षार्थविषयप्रतीतेरभावादिति ॥ सांप्रतमन्यथा सूत्रावयवेनैव प्रकृतनियमकारणमाह- मेयविनिश्चयादिति । द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् । ततश्चायमर्थः -- द्वाभ्यामेव मकाराभ्यां मेयस्य ग्राह्यार्थस्य निश्चयात् स्वरूपनिर्णयात्, द्वे एव प्रमाणे न न्यूनमधिकं चेति । अयमन्त्राभिप्राय:- स्वसंवेदनं प्रति निखिलज्ञानानामेकरूपतया साक्षात्करणचतुरत्वात् नास्त्येव भेदः; बहिरर्थं पुनरपेक्ष्य कश्चिच्चक्षुरादिसामग्रीबललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्त मलक्षित परमाणुपारिमाण्डहयं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कुर्वाणः प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते । यः पुनर्लिङ्गशब्दादिद्वारेण नियतानियतसामान्याकाराबलोकी परिस्फुटतारहितः खल्वात्मनोऽर्थ ग्रहणपरिणामः समुल्लसति स परोक्षतौ स्वीकरोति । न चैतौ प्रकारौ विहाय प्रकारान्तरेण ज्ञानप्रवृत्तिं पश्यामः, न चापश्यम्तः प्रमाणाम्तरपरिकरूपनं क्षमामहे, न च द्वयोः प्रथमानयोरेकं निहृवानमुपेक्षामहे, विशेषाभावात्; तस्मादेतदेव द्वैविध्यमुररीकर्तव्यमिति स्थितम् ॥ १ ॥ २५ 5 For Private And Personal Use Only सांप्रतं यदस्माभिः प्राग् विवृण्वद्भिर्बुदपादि, यदुत विप्रतिपन्नाम्युत्पन्नव्यामोहापोह सहमिहेदं प्रमाणलक्षणमिति तत्सूत्रदर्शनादेव विमलबुद्धयोऽवगच्छेयुः । मन्दमतयस्तु तावता न भोत्स्यन्त इति तद्धितविधित्सया व्यक्तं प्रमाणलक्षणाभिधानफलं प्रतिपिपादयिषुरपि सपूर्वपक्षं निराकाङ्क्ष लक्षयेयुस्ते इति तावत् पूर्वपक्ष मुत्थापयन्नाह प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ २ ॥ इह वचनमुच्चारयता विमृश्यभाषिणा प्रत्यवमृश्यम् - किमिदं मामकं वचनं श्रोतृसंस्काराधायकमुत नेति । इतरथा पर्यालोचितकारितास्य हीयते । श्रोतृसंस्काराधायकं चेत्, उच्चारयति अन्यथा विपर्यय इति । एतत्तु प्रमाणलक्षणवाक्यं सकलमिति । तदप्यनुमानं प्रमाणमप्रमाणं चेति । पारिमाण्डल्यमिति । परिमण्डलाः परमाणवः, तेषां भावः, यणि अनुशतिकादित्वात् उभयपदवृद्धौ पारिमाण्डल्यं वर्तुलत्वम्, न्याय कुमुदचन्द्रे प्रभाचन्द्रेणाप्येवं व्याख्यातत्वात् । अन्ये तु पारिमाण्डल्यं परमाणुपरिमाणमेव इत्याहुः । नियतानियतेत्यादि । विजातीयेभ्यो व्यावृत्तत्वात् नियतः, सजातीयेभ्यश्चाव्यावृत्तत्वात् सर्व एवानियत:, ततो नियतानियतश्चासौ सामान्याकारश्चेति विग्रहः । एतौ प्रत्यक्ष परोक्षरूपैौ ॥१॥ 1 ग्याया- ४

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110