Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org न्यायावतार: २३ इति वचनात् । तदयुक्तम् । यतः प्रमाणाभावः कथं ग्राह्यः ? तद् ग्राहकप्रमाणान्तराभावादिति चेत्, तस्याप्यभावग्रहणे तग्राहकप्रमाणान्तराभावो ग्राह्य इत्यनवस्था । अथ अर्थाभावात्प्रमाणस्य प्रमाणाभावाच्चार्थस्याभावः प्रतिपद्यत इति मम्येथाः, तदेतदितरेतराश्रयं दुर्घटमापद्येत । न यावदर्थाभावो गृहीतः तावत्प्रमाणाभावः सिध्यति, अर्थाभावः प्रमाणाभावात्सेत्स्यतीत्यावर्तनात् । अथेन्द्रियवत् स्वयमविज्ञातोऽपि प्रमाणाभावोऽर्थाभावं ज्ञापयिष्यतीत्यभिदधीथाः, तदयुक्तम्, तस्य तुच्छतया सकलशक्तिविरहलक्षणत्वात् इन्द्रियस्य तु तद्विपर्यस्ततया ज्ञानोत्पादनक्षमत्वात् । तस्मात् प्रत्यक्षमेव भूतलादिप्रतिनियतवस्तुग्राहितां बिभर्ति । यदि तद्विपरतघटादिप्रतियोगिवस्त्वन्तरबैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे तस्यैव प्रतिनियतत्वासिद्धेः, सकलसंकर्णितया ग्रहणप्रसङ्गात्, अतोऽधिकब्राह्माभावाग्निर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तदप्रमाणमिति स्थितम् । 1 Acharya Shri Kailassagarsuri Gyanmandir , द्विधेत्यस्मिन् सत्यपि 'प्रत्यक्षं च परोक्षं च' इति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं 'प्रत्यक्षमनुमानं चेति' द्वैविध्यमपक्षिपति, तदाकूतेन तस्यायोगात् । प्रत्यक्षातिरिक्तं हि तादात्म्यतदुत्पत्तिलक्षण संबन्धेोपलक्षितकार्यस्वभावानुपलब्धिरूपलिङ्गत्रय संपादित जन्मकमनुमानमेव प्रमाणं न शब्दोहादिकम्, संबन्धविकलत्वादिति तदाकूतम् । अयुक्तं चैतत् प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात् । न तावत्प्रत्यक्षात् प्रमाणान्तराभावावगतिः, तस्य स्वलक्षणविषयत्वेनाभाघग्राहिताविरोधात्। नापि स्वभावकार्यानुमानाभ्याम्, तयोर्वस्तुसाधनत्वात् । नाप्यनुपलब्धेः, तस्या अध्यत्यन्ताभावसाधनविरोधात् । सा हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया, तद् यथा - विरुद्धोपलब्धिर्विरुद्ध कार्योपलब्धिः कारणानुपलब्धिः स्वभाबानुपलब्धिश्चेति । न तावद्विरुद्वीपलब्धेः प्रमाणान्तरस्यात्यन्ताभावः, स्यात्मनो --- भावरूपस्य सत्तावबोधार्थं प्रमाणपश्चकं यत्र वस्तुमात्रे नोत्पद्यते, तत्र घटादिविषयेऽभावस्य प्रामाण्यम् | क्वचिद् ' वस्त्वसत्तेति' पाठः, स त्वभावप्रमाणतेत्यनेन संबन्धनीयः । तदिति । प्रमाणस्य । । तस्यापि प्रमाणान्तरस्य । एवमिति । अमुना यदित्यादिना वक्ष्यमाणप्रकारेण तद्विपरीवेति । ततो भूतलाद्विलक्षणाम् । वैवितथं राहित्यम् । तस्य भूतलस्य । तद्यथेत्यादि । विरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्श:, अग्नेरिति १ । विरुद्धकार्योपलब्धिर्यथा - नात्र शीतस्पर्शः, धूमादिति २ । कारणानुपलब्धिर्यथा - नात्र धूमः, अग्न्यभावादिति ३ । स्वभावानुपलब्धिर्यथा - नात्र धूमः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ४ । शेषास्तु सप्तापि अनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एष्वेव चतुर्षु मैदेष्वन्तर्भवन्ति, इति प्रतिभेदरूपत्वान्न न पृथगभिहिताः । ढश्यात्मन इति । दृश्यस्वरूपस्य विरुद्धस्य वहषादेः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110