Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः २१ अमुना बहिरपि येऽर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तातिरस्यति । स्वांशप्रहणे यन्तःसंवेदनं व्याप्रियते यथा तथा बहिरपि, इतरथा अर्थवज्ञानसंतानान्तराण्यपि विशीर्येरन् , स्वमदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्यैव तथा तथा विजृम्भणात् । तथा च प्रमाणप्रमेयप्रतिपायप्रतिपादककार्यकारणभावादयः प्रलीयेरन्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोरपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः । अद्वयविज्ञानतस्वसाधनेनानुकूलमाचरसीति चेत्, स्यादेतत्, यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदनकुदर्शनवासनाहितादृष्टाद्वयतत्त्वपरिकल्पनात् प्रतिकूलं न स्यात् । तन्नार्थविरहेण बहिःप्रमाणभूतज्ञानोल्लासोऽस्ति, निर्हेतुकरवप्रसङ्गादिति । ग्राहकमिति च निर्णायकं द्रष्टव्यम् , निर्णयाभावेऽर्थग्रहणायोगात्। तेन यत ताथागतैः प्रत्यपादि प्रत्यक्षं करूपमापोढमभ्रान्तम् [म्या० वि० ४] इति तदपास्तं भवति, तस्य युक्तिरिक्तत्वात् । तथा हि-ते निर्विकल्पकत्वेऽध्यक्षस्यायुक्ती: खेटयन्ति- किलेदमर्थसामर्थ्येनोदीयते, संनिहितार्थक्रियासमार्थग्राहकत्वात् । न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात् ततश्चासावुपनिपत्य स्वगोच. रसंवेदनमुस्थापयन् स्वाकारमनुकारयति । तन्न तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः। यद् याहकं तत्प्रत्यक्षमिति दर्शयति । न चार्थस्य ग्राहकमित्येतावतैवैतत् सिद्धमिति वाच्यम्, यत आत्मस्वरूपस्यार्थस्य प्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव । न चैवं केवलस्वांशयाहिणः स्वसंवेदनस्य प्रत्यक्षाव्यवच्छेदः, बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव ग्रहणेक्षयेति वक्ष्यमाणपदस्यायोजनात् । बहिरपीति । न केवलमन्तर्मुखाकारेण ज्ञानमर्थप्रहणशून्यम्, चिद्रूपस्यैव तथा प्रतिभासनात्, अपि तु बहिर्मुखाकारेणापि । ये इति । योगाचारादयः। इतरथेत्यादि। संतानो ज्ञानप्रवाहः, तस्मात् विवक्षितादन्ये संतानान्तराणि । सदनुमानस्य संतानान्तरसाधकानुमानस्य, तथा हि-विवक्षितदेवदत्तादेरन्यत्र यज्ञदत्तादौ म्यापारव्याहारौ बुद्धिपूर्वको, व्यापारव्याहारत्वात्, संप्रतिपन्नव्यापारव्याहारवद, इति संतानान्तरसाधकानुमानम् । तस्मिन् व्यापारव्याहारयो नकार्यत्वेन प्रतिबन्धनिश्चयात् । एतस्य चानुमानस्य स्वप्नदृष्टान्तेनोपप्लवो भ्रान्तत्वम् । तथा हि- यथा सर्वे प्रत्यया निरालम्बमानाः, प्रत्ययत्वात्, स्वप्नप्रत्यवदिति भवदमिप्रायेण बहिरर्थसाधनस्य निरालम्बनतया बाह्यार्थाभावः, तथा संतानान्तरसाधनस्यापि निरालम्बनतया संतानान्तराभावः। व्यवहारेति । व्यवहारोऽ. बलाबालगोपालहालिकादिप्रसिद्धः। न चायं भ्रान्तः, क्रियाविरोधप्रसङ्गात् । तथा हि-भ्रमाद बहलामोदमोदकादनमिव सौगतानामुपलशकलभक्षणं सुगतपदद्वयाराधनवद्वा खरोष्ट्रदासीपदपर्युपास्तिश्च प्रसजति ; न चैतद् युगान्तेऽपि दृश्यते, तन्नायं भ्रान्तः। तद्धेविति। तस्य घटादेर. र्थस्य ये हेतवो मृदादयस्तेभ्योऽन्यानि यानि ताल्वादीनि कारणानि तज्जन्यत्वाद असावित्यर्थः। उपनिपत्येति । निकटीभूय । स्वाकारम् अर्थाकारम् । तद्ग्राहिणि अर्थपाहिणि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110