Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः नुमानान्तर्भावयितुं शक्यं शाब्दम् , तथापि तत्प्रति विप्रतिपद्यन्ते परे। अतस्तस्पाहत्व प्रामाण्यं समर्थनीयम् । न चापृथग्भूतस्य तद्विविकं वक्तुं शक्यम् , अतः पार्यक्येनोपन्यासः । अनेन चैतदुपलक्षयति- अन्येषामपि परोक्षविशेषाणामनुमानान्त. भर्भावसंभवेऽपि यं यं प्रति परेषां विप्रतिपत्तिस्तं तं परोक्षाविष्कृष्य विविक्तयुक्त्युप. भ्यासेन तस्य तस्य प्रामाण्यमावेदनीयम् । तथा च शास्त्रान्तरे यहादीनां लक्षणं अकारि आचार्यैस्तद् युक्तमेवेस्युक्तं भवति । कथं तर्हि मीमांसकपरिकल्पितोऽभावो म प्रमाणम् ? निर्गोचरस्वादिति ब्रूमः । तथा हि-प्रत्यक्षमेवान्वयग्यतिरेकद्वारेण भूतलमेवेदं घटादिर्नास्तीति वस्तुपरिच्छेदप्रावीण्यमाविभ्राणं तदधिकमायार्थाभावात् प्रमाणान्तरं परिकल्प्यमानं निरस्यतीति किं नश्चिन्तया ? तस्य सदसदूपवस्तुप्राहिणः प्रतिप्राणि प्रसिद्धस्वात् । अथ कदाचिदभिदध्यात् , अध्यक्षं भावांशमेवा. कलयति , इन्द्रियद्वारेणोत्पत्तेः , तस्य च भावांशे एव व्यापारात् , नास्तिताज्ञानं तु वस्तुग्रहणोत्तरकालं प्रतियोगिस्मरणसद्भावे मानसमक्षव्यापारनिरपेक्षमन्मजति । प्रत्यभिज्ञान इदानीं दृश्यमानः पर्यायोऽन्यथा नोपपद्यते, यदि पूर्वानुभूतः परंपरया एतस्य कारणभूतो द्रव्यरूपतयतदात्मा पर्यायो न स्यात् । तथा स्मरणेऽपि संस्कारोऽन्यथा नोप. पद्यते, यदि पूर्वानुभवो न भवति । संस्कारप्रबोधश्च पूर्वानुभवस्मारकः क्वचित्तादृशदर्शनेन, क्वचिच्चाभोगादिभिरिति प्रागेवाभिहितम् । एवमूहेऽपि कतिपयधूमधूमध्वजव्यक्तीनामव्यमिचरितं साहचर्य प्रत्यक्षेणोपलभ्यमानमन्यथा न जाघटीति, यदि सर्वत्र धूमामिव्यक्त्यो. न्यथानुपपनत्वलक्षणः संबन्धो न स्यात् । अर्थापत्त। तु वहिसंयोगात्करतलगतं स्फोटलक्षणं कार्य प्रत्यक्षेणोपलक्ष्यमाणमन्यथा नोपपद्यते, यदि वढेः काचिद्दाहिका शक्तिर्न स्यात् । पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभाविशतादिसंख्यासंवेदने तु पर्यन्तसोपानानुभवः पूर्वानुभूतनवनवत्यादिसोपानसंस्मरणसंवलितोऽन्यथा न संगच्छते, यदि शतादिसंख्या सोपानानां न स्यादिति । एवं यथावुद्धिसंप्रदायमुपमानादिप्यन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदनचतुरत्वं भावितम् , अन्यथापि कुशलरभ्यूह्यमिति ॥. आहत्येति । पूर्वपक्षादिभिनिष्टहव । जहादीनां लक्षणमकारीति । यथा -उपलम्भानुपलम्भनिमित्नं व्याप्तिमानमूहः, यथेदमस्मिन् सत्येव भवति असति न भवत्येवेति च । आदिशब्दात्संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः, गथा स देवदत्त इति । दर्शनस्मरणकारणक संकलनं प्रत्यभिज्ञानम् , यथा तदेवेदमिति ? मीमांसककल्पित इत्यादि । ने मेवमाहुः- प्रत्यक्षादिप्रमाणपक्षक. माशाद् भावाद् भिन्नत्वादभावस्य ग्राहकं पृथगेवाभावप्रमाणम् । न चाभावस्थावस्तुत्वेन तदप्राहकप्रमाणाभावः, अमावस्यावस्तुवे प्रागभावादिभेदानुपपत्तेः, यदवस्तु न तस्य मेदः, यथा खम्पादः, अस्तित्वाभावस्य भेदः प्रागभावः प्रमाभावान्यान्याभावोऽत्यन्तामाववेति । किं च अभावस्यावस्तुत्रेऽर्थानामसांकयं न स्यात् , अमांकर्यहनोः प्रागभावादेरवस्तुतयासत्त्वात् , तथा च प्रतिनियतव्यवहाराभावः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110