Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः तथा स एव संस्कारस्तादृशार्थदर्शनेनाभोगादिना वा प्रबुद्धोऽनुभूतविषयासंप्रमोषलक्षणं स्मरणमुपजनयति, अदृष्टार्थस्य पुंसः स्मरणानुपपत्तेरिति । ऊहोऽपि प्रत्यक्षानु. मानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः प्रमाणान्तरमिति कथयिष्यते । अर्थापत्तिस्तु प्रत्यक्षादिगोचरीकृते स्फोटादिपदार्थान्यथानुपपस्या दहन शक्त्यादिकं पावकादेरर्थान्तरं पूर्वदर्शनगोचरात् समधिकमव्यभिचरितं परिकलाय. तीति प्रमाणतां स्वीकरोत्येव, तल्लक्षणयोगात् । एवमन्यदपि प्रत्यक्षगोचराधिक्य. संपादकं निराकाङ्तया व्यवहारकारि यत्संवेदनं तत्तत्प्रमाणमिति समर्थनीयम् , स्वपरप्रकाशिनिबांधत्वात्, पूर्वापरसोपानपद्धतिदर्शनोरारकालभावि तत्संख्यासंवेदनवत् । सर्वेषां तेषां परोक्षेऽन्तर्भावः, अन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थसंवेदनचतुरस्वादिति । किंचिद्विशेषात्तु प्रमाणान्तरपरिकल्पने प्रमाणेयत्ता विशीर्येत, मानन्स्यप्राप्तः, आधरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तर्विचित्रत्वादिति । ननु चैवं सति यत्परोक्षस्य द्वैविध्यं वक्ष्यमाणमनुमानशाब्दभेदेन तदपि कथमुपपत्स्यते, तत्रापि याप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्यथानुपएन्नत्वेनानुमानान्तीवो न दुरुपपादः। ततश्चानुमानमेवैकमवशिष्यते तदेव परोक्षशब्देन याच्येत युक्तमास्ते, विदुषा. मभिधानं प्रत्यनादरात् ; सत्यमेतत् , एवं तु मन्यते तद् यद्यपि कयाचित्प्रक्रियया. मृदिव स्थासकोशादिषु सदृशपरिणामः, तिरचीनसामान्यं खण्डमुण्डादिषु गोत्ववत , तयोईयोरपि निर्णायकत्वात् । यदि पुनद्वधं प्रत्यभिज्ञाज्ञानं नोज्जृम्भते, तदोव॑तिरश्रीनभेदभिन्नसामान्यव्यवस्था न स्यादिति । अथ पूर्वमर्थदर्शनम् , ततः संस्कारः, ततस्तस्य प्रबोधः, तदनु प्रत्यभिज्ञाज्ञानमिति परंपराश्रयणनिबन्धनाभावात् प्रथमाक्षसंनिपाते एव प्रत्यभिज्ञाज्ञानं किं नोत्पद्यते इत्याह- न संजातं पूर्वार्थगोचरं दर्शनं यस्य तस्य पुंसः प्रत्यभिज्ञानानोद. याभावात् , प्रत्यभिज्ञाज्ञानं हि तादशदर्शनतः संस्कारप्रबोधे, स च सति संस्कार, संस्कारश्च पूर्वमर्थदर्शने एवेति ॥ आभोगादीत्यादि। आभोगः प्रणिधानमवधानमिति यावत् , आदिशब्दादभ्यासादिपरिग्रहः । तथा च न्यायशास्त्रम्-प्रणिधाननिबन्धाभ्यासलिङ्गसादृश्यपरिप्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगैककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषक्रियार्थित्वरागधर्माधर्मनिमित्तेभ्य ( गौ० ३२.४३) इति । एतद्वयाख्या च तत एव न्यायशास्त्रादवगन्तव्या, इह तु नोच्यते, मुगमत्वात , ग्रन्थगौरवभयाच्च । अनुभूतो विषयो येन तदनुभूतविषयं ज्ञानं तस्यासंप्रमोषोऽभंशा ज्ञानानुवृत्तिरिति यावत् , स एव लक्षणं यस्य तत्तथा । ऊहोपीत्यादि । प्रत्यक्षानुमानाभ्यामसंवेद्यः साध्यार्थान्यथानुपपन्नत्वस्वरूपो यो लिङ्गस्य साध्येन साध संबन्धस्तस्यादाने सज्जस्तत्पर इति यावत् । तल्लक्षणयोगादिति । प्रमाणलक्षणोपपत्तेः । सर्वेषामित्यादि। एतेषामुपमानादीनाम् । तथा हि-एवमुपमानेऽन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदन चतुरत्वं स्मर्यमाणदृश्यमानयोगोंगवयपिण्डयोरवि. लक्षणविषाणाद्यवयवयोगित्वमन्यथा नोपपद्यते, यदि तयोः किंचित्सारूप्यं न स्यात् । एवं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110