Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः प्रत्यक्षव्यक्तिसाधर्माद्वारेणाधुनातनप्रत्यक्षव्यक्तीनां प्रामाण्यप्रत्यायकं परप्रतिपादक च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरमुररीकर्तव्यम् । परावबोधार्थ च प्रत्यक्षमेवैकं प्रमाणं नान्यदस्तीत्युल्लपन् उन्मत्ततामात्मनो लक्षयति । प्रत्यक्षेण परचेतो. वृत्तिसाक्षात्करणाभावाद् व्यापारव्याहारचेष्टाविशेषदर्शनाद् बोधविशेषावगतो परोक्षस्य प्रामाण्यं बलादापततीति न्यायात् । स्वर्गादृष्टदेवतादिप्रतिषेधं न प्रत्यक्षेण कर्तुमर्हति, तस्य संनिहितमात्रविषयत्वात् । न चायं तदप्रतिषेधेन खरखरकचाकतामामोति, प्रमाणान्तरं च तत्प्रतिषेधार्थ च नेच्छत्तीति विषममेतत्कथं कुर्यादिति सविस्मयं नश्वेतः। किं च । प्रत्यक्षमपि कथं प्रमाणतां स्वीकरोतीति वक्तव्यम् , गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणात् । तथा हि - तत्समग्रसामग्रीकपदार्थबलेनो. मजति, तदभावे विस्फारितक्षणयुगलस्यापि प्रमातुनोंदीयते इति ब्रूषे, परोक्षेऽपि तर्हि समानमेवैतत् , तदपि बहिरर्थसामर्थ्यादेवोलसति, तत्संबद्धलिङ्गशब्दद्वारेण सस्योत्पत्तेः, अन्यथा परोक्षाभासताप्रसङ्गात् । तस्य चालीकत्वे पारमार्थिकपरोक्षपामाण्यक्षतेरयोगात्, अन्यथा प्रत्यक्षमपि गगनतलावलम्बिशशधरयुगलावलो. कनचतुरमलीकमवलोकितमिति सकलविशददर्शनानि सत्यताभिमतान्यप्यलीकता. मधुवीरन् । तन्न प्रमाणभृतं परोक्षं कदाचन गृह्यमाणपदार्थसत्तां विहायोत्पत्तुमुत्सहेत, इति प्रत्यक्षवन्प्रमाणकोटिमारोहति बलादिति स्थितम् ॥ तथा यदपि परैरुक्तद्वयातिरिक्तं प्रमाणसंख्यान्तरं प्रत्यज्ञायि, तत्रापि यत्पर्यालोच्यमानमुपमाना
पत्तिवत्प्रमाणतामात्मसाक्षात्करोति, तदनयोरेव प्रत्यक्षपरोक्षयोरन्तर्भावनीयम् । पत्पुनर्विचार्यमाणं मीमांसकपरिकल्पिताभाववत्यामाण्यमेव नास्कन्दति, न तेन बहि तेन वा किंचिन्नः प्रयोजनम्, अवस्तुस्वादित्यपकर्णनीयम् । अथ कथमुप
- परावबोधार्थ चेत्यादि । प्रत्यक्षमत्रकं प्रमाणं नान्यदस्तीत्येतत् प्रतिपाद्यावबोधार्थमुल्लपन् उन्मत्ततामात्मनो लक्षगतीति गंबन्धः । कुत इति । एतस्माद् न्यायात् । एनमेव च न्यायमाह-प्रत्यक्षणेत्यादि । अध्यक्षण प्रतिपावचेतोवृतेः प्रत्यक्षीकरणाभावात् गोवलीवर्दन्यायेन व्यापारशन्दन चाविशेषादन्यैव क्रिया गृह्यते, अन्यथा चेष्टाविशेष इति पुनरुक्तं स्यात् । व्याहारशब्दः अष्टाविशेषोऽक्षिपक्षमसंकोचादिविशिष्टका. यिको व्यापारः, तेषां दर्शनात् । योधविशेषस्थ प्रतिपाद्याभिप्रायस्यावगतावभ्युपगम्यमानायौ हठात्परोक्षस्य प्रामाण्यमागच्छति । अयमभिप्राय:--प्रतिपाद्यस्यावबोधो भवतु, एतदर्थ चार्वाको वचनमुच्चारयतिः परस्य च संचलनतया स्तम्भाम्भोरुहादिभ्यो लक्षण्यमिदं च बोद्धमभिप्रेतमिति नाध्यक्षेण लक्षयितुं क्षमत, व्यापारादिदर्शनात् प्रतिपाद्यस्य चैतन्याभि. प्रायविशेषयौरवगतावङ्गीक्रियमाणायां परीक्षस्य प्रामाण्यं बलादायातीति । अरेति । पुण्यपापे । उन्मजति उत्पद्यते । उदीयते ईङ् गती देवादिक: उदेतीत्यर्थः । तत्संवद्धेति। अनुमेयवाच्यरूपेण बाह्याङ्कन संबद्धो लिङ्गशब्दो।
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110