Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिपनसहितः ध्वनिरिन्द्रियवञ्चनो गृह्यते । ततश्राक्षं प्रतिगतं प्रत्यक्षम् । यदिन्द्रियमाश्रित्योजि. होतेऽर्थसाक्षात्कारि ज्ञानं तत्प्रत्यक्षमित्यर्थः । एतच प्रत्यक्षशन्दव्युत्पत्तिनिमित्तं तु प्रवृत्तिनिमित्तम् । स येवं व्युत्पादितोऽपि साक्षात् प्रामग्राहकं ज्ञानविशेष लक्षयति, तत्रैव रूढत्वात् , यथा गमनक्रियायो व्युत्पादितोऽपि गोशब्दः ककुदाविमन्तं पिण्डविशेष गच्छन्तमगच्छन्तं वा गोचरयति, तत्रैव तस्य प्रसिद्धत्वात्, न गमनक्रियायुक्तमपि पुरुषादिकं विपर्ययादिति । ततश्च सर्वशज्ञानानां यत्स्वरूपसंवेदनं तदपि प्रत्यक्षमित्युक्तं भवति । तयापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसनाचादिति । भक्षेभ्यः परतो वर्तते इति परोक्षम् , अक्षव्यापारनिरपेक्षमन्यापारेणासा. शादर्थपरिच्छेदकं यज्ज्ञानं तत्परोक्षमिति भावः । चशब्दो प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षमतः। तेन यस्परे प्राहुः प्रत्यक्षं सकलप्रमाणज्येष्टमित्यादि तदपास्तं भवति, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतोऽपि ज्येष्ठता प्रत्वमङ्गत्वात् । प्रत्यक्षस्य पुरःसरत्वात्परोक्षस्य कनिष्ठतेति चेत्, नायमे. कान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छासनिःश्वासादिजीवलिङ्गसद्भावासनावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षणेऽपि जीवन्मृतप्रतीतिदर्शनात्, भन्यथा लोकव्यवहाराभावप्रसङ्गात् । कचित्प्रत्यक्षगृहीतसंबन्धबलात्परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने पश्य मृगो धावतीत्यादिशब्दबलारकृकाटिकामोठनद्वारण मृगविषयं, तथा स्मरणासंकेतग्रहणादा अपूर्वापूर्वार्थदर्शमकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्व प्रत्यक्षं दृष्टमिति परोक्षस्य ज्येष्टतासज्येत ।
द्विधेति । सर्व वाक्यं सावधारणं प्रवर्तते इति न्यायात्, अन्यथानियतार्था प्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गात् , विपरीताकारनिराकरणचातुर्यायोगेन निरा
अक्षं प्रतिगतं प्रत्यक्षमिति । अक्षशब्दस्य नपुंसकत्वात् तत्पुरुषस्य चोत्तरपदप्रधान. स्वात् नपुंसकत्वमेव प्राप्तमिति न वाच्यम् , परलिगोद्वन्द्व-इत्यधिकारे अंशीति सिद्धहेमलिङ्गानुशासनसूत्रेण अश्येव तत्पुरुष उत्तरपद लिङ्गभाकू, यथा- अर्थ पिप्पल्या अर्धपिप्प. लीयम् अ| जरत्या अर्धजरतीयम् । तेनान्यत्र वाच्यलिङ्ग एव तत्पुरुषः । तत्र प्रत्यक्षी बोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानम् ॥ उजिहीते उत्पयते । विपर्ययात् पुरुषादौ गोशब्दस्याप्रसिद्धत्वात् । तथा स्मरणादित्यादि । अपूर्वा पूर्वार्थदर्शनविषये कुतूहलेन आदि. शब्दात्प्रयोजनादिना कृत्वा हेतुना वा बनविषयं देवकुलादिविषयं वा परोक्षपूर्वमध्यक्षमी. क्षितम्, कुतूहलायपि कुत इत्याह-स्मरणात्, अनुभूतमर्थ हि स्मृत्वात्पन्न कुतूहलः पुमान् प्रवर्तते इति । तथा संकेतग्रहणान्, गृहीतसंकेतो हि संकेतिते स्थाने जातदिदृक्षो व्रग्रं प्रवर्तते ॥
द्विधेति। सर्व वाक्यं सावधारणमित्यादि । अत्र केचिदाहुः-यथा अत्र विधेत्युके द्विधैव न त्वेकधा त्रिधा वेत्येवमन्ययोगव्यवच्छेदः, तथा चैत्रो धनुर्धर इत्यादिष्वपि चैत्रस्य
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110