Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः नतिकमात् । स हि दम्यविशिष्टः पर्यायः समकालभाविना शामेनानधिगतोऽधि. गम्यते, यद्वा कालान्तरभाविनेति। न तावत्समकालभाविना, तत्संभवाभावेन विशेषणवैफल्यात् । न हि संभवोऽस्त्येकस्य प्रमातुरेककालं द्रव्यकोडीकृतैकपर्याय. विषयसंवेदनद्वयप्रवृतेः, तथानुभवाभावात्, परस्परमधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गाच। नापि कालान्तरभाविना, गृह्यमाणपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमानक्षणमात्रसंबन्धत्वात्तस्य । एतेन पर्यायविशिष्टद्रव्यपक्षोऽपि प्रतिव्यूढः, समानयोगक्षेमत्वात् । अथ सामान्यं, तदप्यसंबद्धम् , तदेकतया प्रथमज्ञानेन साकल्यग्रहणादुत्तरेषां सामान्यज्ञानानामधिगतार्थगोचरतयाप्रामाण्यप्रसङ्गात् । अथ विशेषः, स नित्योऽनित्यो वेति वक्तव्यम्। नित्यश्चेत्, एवं सत्याद्यसंवेदनेनैव तस्य सामस्त्यग्रहणादुत्तरेषां तद्विषयाणामधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः । अनित्यश्चेत्, पर्यायदूषणेन प्रतिक्षिप्तः। अथ सामान्यविशिष्टो विशेषः, कास्य विशिष्टता, किं तादात्म्यमुत तत्संनिधिमात्रम् ? तादात्म्यं चेत् , प्रथमज्ञानेन सामान्यवत्तस्यापि ग्रहणात्, अन्यथा तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सांनिध्यपक्षेऽपि योरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चालग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तत्र अनधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथंचिद् विचारभारगौरवं सहत इत्यलक्षण. मिति स्थितम् ॥ अविसंवादकत्वमधुना विधार्यते-तरिकं प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन आहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति ? यदि प्रथमः कल्पः, तदयुक्तम्, जलबुद्धदादिमुमर्षपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः, प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु, प्राप्त्ययोग्यदेशस्थितग्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेः, अनुचितदेशावस्थानेनैव प्राप्यनहत्वात्तेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचालतविषयतां कथ. मवैषि ? ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत्, एतदेवास्माभिरुदितं किं भवतः परुषमाभाति ? न हि स्वपरप्रकाशि ज्ञानं बाधारहितं विमुच्यान्यस्य विषयानिराकरणं ज्ञानान्तरेण प्रेक्षामहे । तत्तदेव न्यायात्प्रमाणं भवद्भिरभ्युपगतमिति॥ अर्थोपलब्धिहेतुः प्रमाणमित्येतदपि न परीक्षा क्षमते, शरीरादेरपि तत्कारणतया प्रामाण्यप्रसङ्गात् । अव्यवहितमर्थोपलम्भकारणं प्रमाणं न देहादिकमिति चेत्, एवं तर्हि ज्ञानमेव स्वपराविर्भावकं निर्बाधकं च प्रमाणं न संनिकर्षादि, तत्सद्भावेऽपाश्चात्य विकल्पसंबद्धं क्रियापदमिहापि संबध्यते, एवमुत्तरविकल्पेष्वपि । समानयोगक्षेमस्वादिति । अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः, तथा समानौ द्रव्यविशिष्टपर्यायपक्षेण तुल्यौ दूषणलाभलक्षणो योगश्च दूषणस्य दुरुत्तरत्वात् परिपालनरूपः क्षेमच यस्य पर्यायविशिष्टद्रव्यपक्षस्य तस्य भावस्तत्त्वं तस्मात् । अथ सामान्यमिति । अनधिगतः
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110