Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः काक्षं प्रवृत्त्यासिद्धेः द्विधैव इत्यवधारणेन परपरिकहिपतविपरीतसंख्यान्तरं तिरसुरते, तस्य युक्तिवाधितत्वात् / तथा हि - प्रत्यक्षमेवैकं प्रमाणमिस्यसत् , परोक्षाभावे तस्यैव प्रामाण्यायोगात् / स हि काश्चित्प्रत्यक्षव्यक्तीरर्थक्रियासमर्थार्थप्रापकरवेनाव्यभिचारिणीरुपलभ्यान्यास्तविपरीततया व्यभिचारिणीश्च ततः कालान्तरे पुनरपि तारशेतराणां प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत / न च पूर्वापरपरामर्शशम्यं पुरोवर्त्यर्थग्रहणपर्यवसितसत्ताकं प्रत्यक्षं पूर्वापरकालभाविनीनां प्रत्यक्ष. म्यक्तीनां सादृश्य निबम्धनं प्रामाण्यमुपलक्षयितुं क्षमते। न चायं स्वप्रतीतिगोचराणामपि प्रत्यक्षव्यक्तीनां प्रामाण्यं परं प्रतिपादयितुमीशः / तस्मादवश्यतया यथादृष्ट. धनुर्धरत्वमेव स्यात् न शौयौदार्यधैर्यादयः / तदयुक्तम्, यतः सर्व वाक्यं सावधारणमिति न्यायेऽप्याशाईतस्यैव व्यवच्छेदः / परार्थ वाक्यमभिधीयते, यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः, चैत्रो धनुर्धर इत्यादौ चैत्रस्य धनुर्धरत्वायोग एव परैराशङ्कित इति तस्यैव व्यवच्छेदो नान्यधर्मस्य / इह तु चार्वाकनैयायिकादय ऐकध्यमनेकधा च प्रमाणमाहुः अतो नियतद्वैविध्यप्रदर्शनेन एकत्वबहुत्वे प्रमाणस्य प्रतिक्षिपति / एवं चायमेवकारस्त्रिधा, अयोगान्ययोगात्यन्तायोगव्यवच्छेदकारित्वात् / यद विनिश्चयः-- अयोग योगमपरैरत्यन्तायोगमेव च / / व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः / / 1 / / इति / निपात एवकारः, व्यतिरेचको निवर्तकः / विशेषणविशेष्याभ्यां क्रियया च सहोदितः / विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतीयते // 2 // व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः / / पार्थो धनुर्धरो नीलं सरोजमिति वा यथा // 3 ॥इति / स हीत्यादि / स प्रत्यक्षकप्रमाणवादी चार्वाकः / तादृशेतराणामिति / तादृश्यश्वेतराति द्वन्द्वे पुंवद्भावाभावात् कथमिदमिति न वाच्यम्, सामान्यविशेषभावेन संबन्धात्, यथा-भूतमियं ब्राह्मणीति / तथा च माघः तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियतमपरिभुक्तं यदुकूलं दधानः / मदधिवसतिमागाः कामिनां मण्डनश्री व्रजति हि सफलत्वं वल्लभालोकनेन / इति / (शिशु० 11-33) अत्र हि सफलस्य भावः सफलत्वम, ततः किं सफलत्वं याति इत्याकाक्षायां मण्डनश्रीरिति संबन्धः / तथात्रापि समाचक्षीत चार्वाक :- के प्रमाणेतरते / केषां तादृशेत राणाम् / इति जिज्ञासायामभिधीयते- प्रत्यक्षव्यकीनाम् / क्वचित्तादृशीतराणामिना :: दृश्यते / अयम् चार्वाकः। न्याया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110