Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२६
www. kobatirth.org
टीका-टिप्पनसहितः
,
जनानादिप्रस्वार्थप्रत्यायकत्वादश्रोतृसंस्काराधायकम् । अत आह - प्रसिद्धानि प्ररूडानि, माधुना साध्यानीत्यर्थः । प्रमाणानि प्रत्यक्षादीनि परोक्षगतभेदापेक्षया बहुवचनं व्यक्तिभेदे सामान्यमपि कथंचिद् भिद्यते इति दर्शनार्थम् । तथा हि । तदविवक्षितव्यक्तिकमेकरूपतां बिभर्ति प्रमाणमिति व्यवस्यवच्छेदेन पुनरवच्छिद्यमानं नानाकारण मादत्ते प्रत्यक्षानुमान शाब्दानि प्रमाणानीति, व्यक्तिध्यतिरिक्ताव्यतिरिक्तरूपत्वात्तस्य । तथा हि- शब्दाचक्षुरादेर्धा दूराद् वृक्ष इति प्रत्यये धवखदिरपलाशादिविशेषानपेक्षया साधारणं वृक्षत्वमेव चकास्ति, तस्मात् तेभ्यो भिन्नं तद्, व्यतिरेकिणाकारेण ज्ञाने प्रतिभासनाद् घटादिवत् । परिस्फुटद्धवखदिर पलाशादिविशेषावलोकनवेलायां तु न तदतिरेकिणा रूपेण प्रकाशते इत्यभिन्नम्, तदव्यतिरिक्तस्य संवेदनात्, तत्स्वरूपवत् । विशेषाभिन्नमेव रूपं तात्त्विकं सामान्यस्य तस्यैव दाहपाकाद्यर्थक्रिया क्षमत्वात् । भिन्नं पुनः कल्पना बुद्धिविठपितत्वाद वस्तुरूपमिति चेत्, न, द्वयोः प्रकाशमानयेोरेकस्य निहोतुमशक्यत्वात् । अन्यथा भिनमेव रूपं स्वाभाविकमितरत्तु कल्पनाबुद्धिदर्शितमित्यपि वदतां न वदनभङ्गः स्यात् । अर्थक्रियाकारिताविशेषस्तु भन्नेऽपि रूपे न दुरुपपादः, तस्यापि ज्ञानसाधारणव्यवहार करणदक्षत्वात् । न चार्थक्रिया बस्तुलक्षणमिति निवेदयिष्यामः, तस्मात्सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाविति दर्शनार्थो बहुवचननिर्देशः । आसतां तावत्प्रमाणानि, व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः । चशब्दोऽपिशब्दार्थः । तेनायमर्थ:- यदर्थ प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिर्व्यवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि परः परुषतापरिजिहीर्षयात्मनोऽन्यथा प्राह- प्रमाणलक्षणस्योक्तौ पर रूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्का प्रश्नयत्युलुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न ताव - दनिश्चितम् अनिश्चितस्य लक्षणत्वायोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम् , सक्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वायोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति संगीर्येत तदा प्रमाणपर्येषणं विशीर्येत, नैरर्थक्यापत्तेः, अप्रमाणादपि निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात्, तस्किम
1
,
3
Acharya Shri Kailassagarsuri Gyanmandir
विठपितत्वादिति । उपार्जने विपूर्वः ठप् सौत्रो धातुः । तस्यापीत्यादि । तस्य विशेषभिन्नसामान्यस्य ज्ञानं च साधारणव्यवहारश्च तयोर्विधाने कुशलत्वात्, तथा हिसामान्यं दूराद् धवलधावलेयादिविशेषाप्रतिभासेऽपि सामान्येन गौगौरिति ज्ञानं जनयति, तथा अयं गौरयं गौरिति साधारण व्यवहारं चेति । यदि पुनर्विशेषेभ्यो भिन्नं नाभ्युपगम्येत सामान्यम्, तदा तन्निबन्धनं ज्ञानं सादृश्यव्यवहारम्भ प्रलयं यायादिति ॥ २ ॥
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110