Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः यिकवैशेषिकाः। त्रैगुण्यरूपं सामान्यमिति सांख्याः । भृतचतुष्टयं प्रमाणभूमीति चार्वाकाः ॥ तथा फलेऽपि विप्रतिपद्यन्ते, अर्थाधिपतिः प्रमाणफलमिति सौगताः । पूर्व पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति मीमांसकादयः । तत्र तावल्लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराहप्रमाणं स्वपराभासि ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ १॥ तत्रापि पूर्वार्धन लक्षणविप्रतिपत्तिमुत्तराधेन तु संख्याविप्रतिपत्तिं निराचष्टे । लक्षणं च पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणधर्मः । लक्ष्यते परिच्छिद्यते विजातीयेभ्यो न्यावृत्तं लक्ष्यं येन तल्लक्षणमित्युच्यते। तह द्वये प्रत्याय्याः स्वदर्शनानु. रक्तान्तःकरणास्तीर्थान्तरीया विप्रतिपन्नाः, तथा मुग्धबुद्धयो लौकिका भम्युत्पमा. श्रेति । ततश्च यदादी विप्रतिपन्नान् प्रति लक्षणं तदैवं लक्ष्यलक्षणभावो द्रष्टव्यः। यदिदं भवतामस्माकं च प्रमाणमिति प्रसिद्धम् , तत्स्वपराभासि ज्ञानं बाधविवर्जितं मन्तव्यम् ; प्रसिद्धं प्रमाणमन्द्याप्रसिद्धं स्वपराभासित्वादि विधीयते । यदा तु अभ्युत्पन्नमतीन् प्रतीदं लक्षणम् , तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधारहितस्य कस्यचित् सिद्धत्वात, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गात्, एवं ते बोध्यन्ते-- यददो भवतां क्वचिनियतार्थ चाहि स्वपरप्रकाशकं बाधरहितं ज्ञानं प्रसिद्धं तत् प्रमाणमिति बुध्यन्ताम् । अत्रापि सिद्धस्यानुवादोऽसिद्धस्य विधानं योज्यम् ॥ अधुनाक्षरार्थ:--तत्र प्रमाणमिति पूर्ववत् । स्व आत्मा स्वरूपं, परोऽर्थः, तावाभासयितुं प्रकाशयितुं शीलमस्य तत्तथा । ज्ञायते निर्णीयते तत्वं येन तद् ज्ञानम् । बाध्यतेऽनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यज्ज्ञानं तत्प्रमाणमिति संटङ्कः ।। इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासि इत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेपाः, ये च पराभास्येव मीमांसक अर्थापत्त्या प्रभाकृद् वदति, स निखिलं मन्यते भट्ट एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥ अंगण्यरूपं सामान्यमिति । त्रयो गुणाः सत्त्वरजस्तमांसि, ततः स्वार्थे “ण्योऽ. नन्तादेः" इति ण्यः, त्रयो लोकास्त्रैलोक्यं षड् गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपम् । भूतचतुष्टयमिति । पृथ्व्यप्तेजोवायुलक्षणम् । केचिदेव तु चार्वाकैकदेशीया आकाशलक्षणं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदाचक्षते इति ॥ तीर्थान्तरीयेत्यादि । तीर्यते भवाब्धिरनेनेति तीर्थ द्वादशाङ्गं तदाधारी वा संघा, सस्मादन्यत्तीर्थान्तरं तत्र भवास्तीर्थान्तरीयाः । लौकिका इति । लोके भवा अध्यात्मादेरा. कृतिगणत्वात् " अध्यात्मादेः" इति शैषिकष्ठ । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110