Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११ ) अत्र कुर्यादित्युक्तेऽपि कारयेदिति दृष्टव्यं, न हि श्राद्धः स्वयं जिनमन्दिर तत्पतिमां वा करोति, एवमत्रापि । प्रथमशब्दसाफल्यं त्वेवं कथयन्ति-तेन श्रावकेण प्रथममेव प्रतिमा कारिता, निशीथेऽपि कारापणस्थाने करणशब्दप्रयोगः स्थाने स्थाने पतिपादित एवेति गाथार्थः ॥ एवं भणितऽप्यप्रतिपद्यमानानां सापायं तेषां दूषणमाहतह कासदह-सिरिभिल्लभाल -सच्चउरबिंयमाईणं । अपमाणयं कुणंतेहिं नेहिं अप्पा भवे खित्तो ॥ १४ ॥ ___ तथेति दूषणान्तरसमुच्चयार्थः । काशहद-श्रीभिल्लमाल-सत्यपुरविम्बादीनाम् । तत्र काशहदनगरमासापल्लिात्तनादूरवर्ति, श्रीमालं साम्प्रतं यद् भिल्लमालमिति रूढं, सत्यपुरं म्लेच्छराजवलभरदर्पभञ्जनलब्धमाहात्म्यश्रीमहावीरसदनमण्डितं, तत एषां द्वन्द्वस्तेषु विम्बादि सर्वज्ञ प्रतिमा, आदिशब्दात् शत्रुजयगिरिमहातीर्थ अश्वावधोधमहातीर्थ मोडेरपुर-मथुरागिरि( नार ) अर्बुदगिरि-स्तम्भनस्थादिपरिग्रहस्तासाम् । एतदिह हृदयं-एताः साधुभिः प्रतिमाः प्रतिष्ठिताः । तथा च काशहदीयजिनस्तोत्रे पठ्यते-- " नमिविनमिकुलान्वयिभिर्विद्याधरनाथकालिकाचार्यैः । काशहदशंखनगरे प्रतिष्ठितो जयति जिनवृषभः ॥" शेपास्तु सर्वजनप्रतीता ' अप्रमाणतां' आचार्यप्रतिष्ठितत्वेन · अविधिप्रतिमा एताः ' इति प्ररूपगतां मुग्धजनभावसारतदनौचित्यलक्षणां कुर्वद्भिविदधानेस्तैः श्रावकातिमाप्रतिष्ठाप्रतिपादनपरैरात्मा जीवो ‘भवे' संसारे 'क्षिप्तः ' प्रणुन इनि गाथार्थः । ननु किमेतावता एतावान् दण्डो भवति ? ' भवत्येव ' इत्यस्यार्थस्य साधनाय सिद्धान्तोक्तमाह -- कप्पुत्तमेवमाइं अवि पडिमासुवि तिलोयमहियाणं । पडिरूवमकुव्वंतो पावइ पारांचयं ठाणं ॥ १५ ॥ व्याख्या-कल्पस्यच्छेदग्रन्थस्योक्तं संवादकं वचनं, परमेतावान् विशेषः-- तत्र ' अन्नं च ' इत्यादी गाथायां पठ्यते तीर्थकराशातनाधिकारे । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129