Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८३)
स्थादिवन्दनापेक्षया, यतः कारणात्, तत्करणे प्रवचनभक्तिः, अकरणे चाभक्तिः निर्जराश्रुतलाभौ च भणितो ते न स्युरिति गाथार्थः ॥ इत्यमवयुद्ध जीवोपदेशमाह
तम्हा मेवं देससु संससु परमत्थजाणए पुरिसे । जेणं जायइ तुज्झ वि समत्थ-परमत्थ-विन्नाणं ।।२१०॥ व्याख्या-तस्माद् मा निषेधे, एवमशुद्धं सर्वदा प्रतिपिडिमिति दिश कथ. य, संश्लाघय, परमार्थज्ञान् तत्ववित्पुरुषान् मूरिप्रभृतीन, येन जायते सम्पद्यते तवापि भवतो 'जीव !' इति शेषः, न केवलमाचार्यादीनामित्यप्यर्थः, समस्तपरमार्थविज्ञान-निश्शेषतत्त्वावगम इतिगाथार्थः ।।
अशुडग्रहणकथन एकोनत्रिंशोऽधिकारः॥ त्रिंशत्तममाह
पासस्थाइसमीवे तवो विहाणाइ जं कयं तं तु !! निंदाविति य केई कसायवसकलुसियप्पाणो ॥ २११ ॥ व्याख्या-पावस्थादिसमीपे-शिथिलादिनिकटे तपो-विधानादि उपवासपठ. नप्रभृति, यद्-अनिर्दिष्टनामकम्, कृत-विहितम्, तत्पुनरुपवासादि निन्दापयन्ति त्याजयन्ति, केऽप्येके, कषायावेशकलुषितात्मानः-कोपावेशमलिनीकृतस्वरूपाः, इति गाथार्थः ॥
तत्रोत्तरमाह
तं न जम्हा ववहारओ उ लट्ठाओ जायए लढें ॥ निच्छयो पुण नेवं ववहारम्मी जओ भणियं ॥ २१२ ॥ व्याख्या-तत्-परोक्तम्, नेति निषेधे, यस्माद् व्यवहारत एव-व्यवहारनयमतेन, तुरवधारणे, लष्टात्-शोभनात् साध्वादेः, जायते भवति, लष्ट-शोभनं कर्म निर्जरणादि, निश्चयतः पुननिश्चयमतेन, नेति निषेधे, एवमित्थं, व्यवहारे-प्रतीते, यतो भणितमुक्तम्, इति गाथार्थः ॥
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129