Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११० ) रपि मनयोरावश्यक चूर्णिसत्कमिदमुक्तं - " सच्चैव विही, नवरि तत्थ गमणं नत्थि ।" तथा (( असइ साहुइयाणं पोसहसालार सगिहे वि सामाइ आवस्मयं ना करेsत्ति” अस्यार्थस्य साधकानि बहूनि भगवती सूत्राणि विद्यन्ते, तद्यथा - "समणोवासगणं भंते सामाइअकडम्स समणोवासए अच्छमाणस्स केइ भंडं अबहरेज्जा ?" तथा " समणो वासगस्सणं भंते सामाइयकडस्स समणोवासए अछमाणम्स केइ जाये करेज्जा ? " तथा " समणो वासगहसणं भंते ! सा माइकस्स समणोवासए अच्छमाणस्स, किं इरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?" इत्यादिषु पुनर्भगवतीउत्तराणि वाच्यानि । तस्माच्छ्रमण चैत्ययोरभावे पौधशालादौ श्रावकादीनां पौषधादिकं कर्त्तुं युज्यते, तदकरणं च केनचित्कारणेन श्रद्धातुं युज्यते, अन्यथेत्थं प्रकटसिद्धान्तवाक्यानामकरणे स्फुटतरमागमविलेपः कृतो भवति । यदि पुनरेवं स्वाग्रही भणिष्यति यदुन न सन्ति शोभनाः साध्वादयस्ततः कथं तत्समीपे करोमि पौषधादिकं ? स एवं वाच्यः - येऽप्यचकालापेक्षया विशिष्टसामाचारकास्तेषां समीपे कार्यम्, तदभावेऽन्येषाम् । श्राविकाभिरप्येवं कार्य साध्वीसमीपे । यदि त्वेवं वदति, न कोऽप्यस्ति साध्वादिः सोsनया गायया बोद्धव्यः जो भइ नत्थि धम्मो नय सामाइयं न चैव य वयाई । सो सव्वसंघबज्झो कायव्वो होइ संवेण ॥ २८८ ॥ इत्यादि । किं चास्माभिः पूर्वं सम्यक्त्वज्ञानचारित्राण्यागमवचनैः प्रसाधितानि ते भ्योऽपि श्रद्धातव्यं भवभीरुभिर्गुणवच्वं साधूनाममीषाम् । तस्मात् स्थितमिह - साधुचैत्यसत्तायां नूतनपौषधशालाकरणसामाचारी भणितयुक्तया विघटते, सिद्धान्ते - आगमे, येनेदं वक्ष्यमाणं भणितमुक्तं श्रुतकेवलिना, इत्यर्थः ॥ तदेवाह - आयरियपरंपरएण आगयं जो उ आणुपुबीए । कोवे छेयवाई जमालिनासं स नस्सिहिही ॥ २८९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129