Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगति, ददाति-प्रयच्छति, योऽनिर्दिष्टनामा, दान--वितरणं 'मांसादि' इति शेषः, परसमये--अन्यसिद्धान्ते, तस्य--मांसदातुः, इदं- पूर्वोक्तं, चन्दनाङ्गारोदाहरणं प्रतीत तुच्छलाभप्रभूतहानिजनकम्, यतो विशेषप्रस्तावाद् द्वीन्द्रियादय एवं प्राणा भण्यन्ते, नत्वेकेन्द्रियाः, तथा चोक्तं प्राणा द्वित्रिचतुःमोक्ता भूताश्च तरवः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः ॥” इति गाथावयार्थः पराभिप्रायमाशङ्कयाह अह कह नज्जइ एयं, भन्नइ, सुत्तस्स जायइ विरोहो । को णु विरोहो सुण भो ! भयवइवयणं इमं जम्हा ॥२६९।। व्याख्या--अथेति प्रश्नाथः, कथं--केन प्रकारेण, अनुस्वारोऽत्र पूर्ववत्, ज्ञायते-बुध्यते, एनत्-प्राणशब्देन द्वीन्द्रियादयो न त्वेकेन्द्रिया गृह्यन्ते ? भण्यते--कथ्यते, सूत्रस्य-सिद्धान्तवचनस्य, जायते--भवनि, विरोधो-विप्रतिपत्तिः । परः पाह-कः किमभिधानः, 'नु' इति वितर्के, विरोधः-उक्तस्वरूपः ?, आचार्यः पाह-शृणु-आकर्णय, 'भो' इति परामन्त्रणे, भगवतीवचनं-पश्चमाङ्गसूत्रमिदं-चक्ष्यमाणं यस्मादुच्यते इति गाथार्थः ॥ तदेवार्थतः पाह सजियमणेसणीयं वा समणे वा माहणे दितस्स । किं कजइ, भो गोयम ! बहु निजरमप्पबंधो उ ।। २७० ॥ व्याख्या-सजीव-सचेतनम, अनेषणीयं आधाकादि, वा समुच्चये, श्रमणे साधौ, माहने-जीवरक्षके, 'वा' शब्दो समुच्चये, ददतः प्रयच्छनः, किपिनि प्रश्ने, क्रियते अनेकार्थत्वाद्भवति ? भगवानाह-भो' इत्यामन्त्रणोद्योतकः, गौतम इन्द्रभूते, बह्री प्रचुरा निजरा-कर्महासलक्षणा, अल्पः-स्तोको बन्धः कर्मोपादानं, तुः पूर्ववत्, तथा च तत्सूत्रम्--" तहाविहं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते. किं कजइ ? गोयमा ! अप्पे पावे कम्मे. बहुयरिया से निजरा किजइ, इति गाथार्थः ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129