Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१००)
जं जं जुंजइ जोगं ताणपसंघणं कुणइ ॥ १ ॥
व्याख्या - "पासल्याईया विरया, अविश्यसड्ढो मिच्छादिट्ठी वा अविरओ, fretaryaओ विरयाविरओ, तिविह, तिगिछोट्टो पर्यं देइ " इत्यादि । तथा तत्रैव मार्गगमनाधिकारे - " असंजयलिंगीहिं उ पुरिसा गिईपंड एहि ये दिवाट " प्रथमपदस्य तच्चूर्णिव्याख्या - " असंजया गिही अनलिंगी वा" लिङ्गमेषां विद्यते इति लिङ्गिनोऽन्यपाखण्डिनः इत्यर्थः । तस्मादन्वयव्यतिरेको क्तत्वात् स्वमतेऽसंयताः अत्र परोक्तसूत्रस्थानेन भण्यन्ते इति गाथार्थः ॥
एवं विदिते सूत्रे जीवोपदेशमाह -
सुंदरतरं खु भणियं सव्वं समओदहिंमि रे जीव ! | मंदमइगोयरगयं दुन्नेयं होइ किं बहुणा || २६३ ।।
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- सुन्दरतरं - प्रधानतमं, खुर्वाक्यालङ्कृतौ भणितं उक्तं सर्व्व, समयोदधौ - सिद्धान्तजलधौ, रे जीव ! भो आत्मन्! मन्दमतिगोचरगतं स्वल्पबुद्धिविषयीभूतं, दुर्ज्ञेयं दुर्बोधं भवति जायते किमिति प्रश्ननिर्वचनार्थः, बहुना प्रभूतेन भणितेन इति शेषः, इति गाथार्थः ॥
"
पुनर्जीवोपदेशमाह -
•
तह ससु संससु तह तह तं कुणसु सव्वणुट्ठाणं । जह समयन्नू जप्पंति न उण समईए उबएसो ॥ २६४ ॥
व्याख्या - तथा - तेन प्रकारेण, दिश-कथय धर्म्मम्, तथा शंस- श्लाघय 'भव्यमिदमनुष्ठानं' इति, तथा - त्वं कुरु - विधेहि सर्व्वं समस्तमनुष्ठानं - क्रियाम: अनुस्वारोऽत्र लुप्तो द्रष्टव्यः, यथा येन प्रकारेण समयज्ञा: सिद्धान्तविदो जल्पन्ति - गदन्ति, न पुनर्नैव स्वमत्या निजधिषणया; यत उक्तम्-
" अपरिच्छियसुयनिहसस्स केवलमभिन्नमुत्तचारिस | सन्युज्जमेण विकयं अन्नात बहुं पडइ ||" इत्यादि उपदेशः शिक्षा तवेयं 'जीव' इति शेषः, इति गाथार्थः ॥
१- द्वाण ससंघणं. ख.
For Private And Personal Use Only
२ - च्छा ठ्ठापयं ख । ३ य हि वा । ४ क.

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129