Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु' कोऽत्र दृष्टान्तः' इत्युक्तिमन्युक्तिसम्बद्धगाथात्रयमाह--- खवगरिसिखीरीनाएणं भणसि अहगुणिजणे भवे एवं । गुणवंतमगुणवंतं जाणइ नणु केवली सम्मं ॥ २७१ ॥ अहरुत्तरवासावास कजट्टियसाहुजुयलनाए । इयराण पुण निच्छयववहारनएहिं ववहरणं ॥२७२।। निच्छयनएण हीणेवि सुद्धभावाउ निज्जराभागी। भणिओ पुद्धि ववहारओ वि लिंगपमाणाउ ॥ २७३ ॥ व्याख्या--क्षपकर्षिक्षिरिज्ञातेन-तपस्विपरमानोदाहरणेन, तच्च किल-कयाचिदगार्या कस्यचित् क्षपकासक्षपणपारणके तदर्थ क्षीरीं विधाय यथाऽसौ न लक्षयति तथा दत्ता । क्षपकर्षिणा च सूत्रोपयुक्तेनाशठभावेन गृहीता । भुञानस्य तां शुद्धभावेन केवलमुत्पन्नम्, नतो ज्ञातं यथा मदर्थं कृतेति । तस्या अगार्याः प्रभूतो लाभोऽल्पश्च कर्मबन्धो भणिता, तस्माद्बहुलाभे स्तोकहान्यां कथं परोक्तदृष्टान्तकथनम् ? । पराभिप्रायमाशङ्कयाह-भणसि-जल्पसि, अथेति परावकाशे. गुणिजने प्रधानपात्रे, भवेदेव बहुलाभस्तोकहानिलक्षणं फलम् । आचार्यः प्राह-गुणवन्तं-प्रधानसंयमिन, अगुणवन्तं-तद्विपरीतं जानातिबुध्यते, ननु-अहो परः, केवली-प्रत्यक्षज्ञानी, सम्यग-अवैपरीत्येन । । दृष्टान्तमाह-अधउत्तर वर्षावासकार्यस्थितसाधुयुगलज्ञातेन, तच्च प्रागेव 'तवविणयमृत्तपूयेत्यादिगाथायां कथितम् । तत्र हि लोकेन गुणवान् क्षपकर्षिरवबुद्ध :, केवलिना वितरः कथित इति । इतराणां- छद्मस्थानां, पुनर्निश्चयव्यवहारनयाभ्यां, व्यवहरण-आचारः । नावेवाह-निश्चयनयेन निश्चयनयाभिप्रायेण, हीनेऽपि गुणतुच्छेपि, शुद्धभावा--प्रशस्तान्तःकरणात, निर्जराभागी कर्महासकारको, भणित उक्तः।पूर्व पश्चात् 'निच्छयओ पुण अप्पेवी'त्यादि गाथाव्यवहारतोऽपि द्वितीयन. यमतेनापि लिङ्गप्रामाण्यात्- वेषप्रतिष्ठातः पञ्चकल्पादिगाथात इति गाथात्रयार्थः ।। अभ्युच्चयार्थमाह१ एतन्धही परः क । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129