Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०४ ) किंचेत्थ केवली विहु ववहारनयं पमाणयंतो उ । वंदइ इयरमनायं भुंजइ य तहा अहाकम्मं ॥ २७४ ।।
व्याख्या--किञ्च--अभ्युच्चये, अत्र-जिनमते, केवल्यपि प्रत्यक्षज्ञानी, हुः पूरणे, व्यवहारनयं निश्चयविपक्षं प्रमाणयन्--अनुल्लङ्घयन् , तुस्तथैव, वन्दते--नमस्करोति, इतरं--अकेवलिनम्, किंविशिष्टः ? अज्ञातो-ऽनवबुद्धः, भुङ्क्ते च--अश्नाति, तथा समुच्चयार्थः, आधाकर्म--अनेषणीयम्, इति गाथार्थः ।। एतदेव प्रपश्चयन्नाहसिरिधम्मदासगणिणावि वारियं अन्नलिंगीणं दाणं
सड्ढाणं भतीए दाणं विणयं च वजह ॥ २७५ ॥ व्याख्या--श्रीधर्मदासगणिनापि--उपदेशमालाक; वारितं निषिद्धम्, अन्यलिङ्गिनां--शाक्यादीनां, दान-वितरणं श्रावकानां--श्राद्धानां, भत्तया-बहुमानेन, दानं विनयं च,वजयति । तत्र दानमशनादिः,विनयस्त्वभ्युत्थानादिः "परतित्थिया
"त्ति पूर्व भणितत्वाद्भक्तिशब्दश्चानुक्तोऽप्यस्यां वाच्यः। कथमन्यथावश्यकचूॉ. भणितं श्रावककृत्ये ?-- "कारुणियाए पुण देजावि"त्ति कारुण्येन--अनुकम्पया तेषामपि दद्यात् स्वमते तु निवारितं श्रावकाणाम् । इति गाथार्थः ॥ अमुमेवार्थ प्रपञ्चयति करणतः श्रावकाणां कृत्यमिति सपादां गाथामाह-- नियलिंगीणं कारियमेयं अह तं अवत्थपडियाणं
नणु जो दोसो भीसो जइ खलु अन्नयावि भवे ॥ २७६ ॥ किं सो न वज्जणिज्जो।
व्याख्या--निजलिङ्गिणां स्वमतवेषिणां,कारितं विधापितं, एतदानादीति शेषः, श्रीधर्मदासगणिनेत्यत्रापि पूर्वगाथोक्तं सम्बन्धनीयं "जणचित्तगहणत्थं करिति लिंगावसेसेवी'त्येनेन सुसाधुभ्यः सकाशात् इति शेषः । अथेति पराशङ्कार्थः तदानाद्यवस्थापतितानां ग्लानत्वे न त्वन्यदा, नन्विति परामन्त्रणे, यो दोषो-लोकहीलालक्षणस्तस्यां ग्लानावस्थायां स दोषः पर्वोक्तो यदि खलु निश्चयेनान्यदापि ग्लानत्वाभावे जायेत । किमिति प्रश्ने ? स दोषो हीलालक्षणो न नैव वर्जनीयः परिहरणीय एव श्रावकैरिति शेषः ।
For Private And Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129