Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९४ ) अद्वितीयः, अथ एक एव साधयति निष्पादयति 'मोक्ष' इति शेषः, ततः किमिति प्रश्ने, न तु शेषक्रियया नमस्कार-व्यतिरिक्तानुष्ठानेन: एकनमस्कारेणैव मोक्षस्य सिद्धत्वाद् इति गाथार्थः ॥
न केवलं नमस्कारस्येदं माहात्म्यं, किन्त्वपरेषामपीत्याहसव्वे वि य सुहजोगा फलया कम्मक्खयत्थं कीरंता । अविसेसेवि विसेसो नजइ थुइवयणमेवं तु ॥ २४५ ॥
व्याख्या-सर्वेऽपि समस्ताः, न केवलं नमस्कार इत्यपि शब्दार्थः, शुभयोगा: प्रशस्तव्यापाराः, फलदा-मोक्षसाधकाः, कर्मक्षयार्थ पापाद्यपोहनिमित्तं, क्रियमाणा विधीयमानाः, अविशेषेऽपि 'विशेषो नमस्कारो मोक्षदः इति ज्ञायतेबुध्यते, स्तुतिवचन--स्तववाक्यम्, एवं- इत्थं, ततस्तस्माद् " इति गाथार्थः ॥
ननु किं नमस्कारान्मोक्षो न भवति ? इत्यस्योत्तरगर्भ जीवोपदेशमाह-- पारंपरेण एगो वि होज संसारतारओ सो उ। . एवं ठियंमि रे जीव ! मुणसु जं बिति समयन्न ॥ २४६ ।।
व्याख्या--पारंपरेण-परंपरया, एकोऽपि भवेत्, संसारतारकः, स,-नमकारः, तः पूरणे, एवं स्थिते इत्यं प्रतिष्ठिते, स्तुतिवाक्ये, रे जीव ! भोः प्राणिन् ! मुण--जानीहि, यब्रुवते समयज्ञा:--मिडान्तविदः, एवं भयवाक्यादीन्यपि बहुश्रुतसेवातोऽवगम्यानि, इति गाथार्थः ।। यो यथावादं न करोति स मिथ्यादृष्टिः इत्यादि वर्णनो द्वात्रिं. शोऽधिकारः ॥
अतस्त्रयस्त्रिंशमाहवेसो वि अप्पमाणं इच्चाई दसिऊण वारिति ।
सन्वं पिहु करणीयं इह लिंगुवजीविणो वइणो ॥ २४७ ॥ व्याख्या-'वेषोप्यप्रमाणम्' - इत्यादि निदर्य-कथयित्वा, आदिग्रहणाद् "संजमपएसु वट्टमाणस्स, किं परिपत्तियवेसं विसं न मारेइ खज्जन्त " इति दृश्य वारयन्ति-निषेधयन्ति, सधमपि-समस्तमपि, करणीयं--कर्तव्यम, इह समये,
For Private And Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129