Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०) भ्यां--प्रतीताभ्यां, सर्वमपि निःशेषं जिनमत--सर्वज्ञागमः, खलु निश्चये, निर्दिष्ट. कथितं, समयकेतुभिः--जिनागमोद्योतकैः, इति गाथार्थः ।।
व्यतिरेकमाहजइ पुण नेवं नेय होजा, तो कह णु सबलचारित्ती। इगवीसहाणेमु भणिओ एवं दसाईसु ॥ २३४ ।।
व्याख्या-यदि पुन.--नयविचारं विना, ज्ञेयमवगन्तव्यं, भवेत्, ततः कथं--केन प्रकारेण, 'नु' इति वितर्के, शबलचारित्री-कर्चुरशीलः, एकविंशतिस्था नेषु-इति संख्यानियमितेषु, भणितः-उक्त, एवं वक्ष्यमाणनीत्या, दशाश्रुतस्कन्धावश्यकादिषु, इति गाथार्थः॥
तान्येवार्थतः पाहआउट्टियाए पाणाइ-वायकत्ता तहा उ भुजंतो। आहाकम्मं कंदाइयं च एमाइ इगवीसं ॥ २३५ ॥
व्याख्या-आकुटिकया-जानन् अनापदि यत् सेवते ।तथाचोक्तं दशाश्रुतस्कन्धचूर्ध्याम्-" आउहिया नाम जाणंतो अणावइए जं सेवइ"त्ति, प्राणातिपातकर्ता-जीवघातविधाता, तथाऽपरं, भुञ्जानो-अभ्यवहरन्, आधाकर्म-प्रतीतं, मूलादिकं च-मूलफलादिकं, एवमादि-इत्थं प्रभृति, एकविंशति यानि 'शबलस्थानानि, इति शेषः।
तथा भगवत्यां पुलाक-बकुश-प्रतिसेवनाकुशीलानां मूलोत्तरगुणसेविनां चारित्रं भणितम् । यद्यपि बकुशस्योत्तरगुणसेवित्वं तत्र भणितं, तथाप्युत्तराध्ययनचूयॊ तस्यापि मूलगुणसेवितं भणितमास्ते; न च वेलानियमः कृतः, इति गाथार्थः।।
अस्यैव भावार्थमाहनाणे सह चारित्तं, नाणं पुण होइ सम्मदिहिस्स । तो नजइ समत्तं जहवायमकुव्वउ वि भवे ॥ २३६ ॥ व्याख्या-ज्ञाने-बोधरूपे, सति- विद्यमाने, चारित्रं--शीलम्, ज्ञान, पुन
For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129