Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८६)
प्रकुर्व्वते - विदधति, योगादिकं योगोद्वहनादिकम, इति गाथार्थः ॥
तन्मतावलम्बिनां निर्मूलतां दर्शयन्नाह -
अहो पिच्छ अन्नाण - विलसियं सावयाण केसिं चि ॥ पञ्चक्खविरुद्धे विहु लग्गंती ताण वयणम्मि ॥ २९८ ॥
व्याख्या -'अहहो' इत्याश्वर्ये, प्रेक्षस्व - अवलोकय ' मध्यस्थजनः' इति शेषः; अज्ञान विलसितं - मूढता चेष्टितं श्रावकाणां प्रतीतानां केषाञ्चिद् न सर्वेषाम, प्रत्यक्ष विरुद्धेऽपि अध्यक्षासङ्गते, हुः पूरणे, लगन्ति अवलम्बन्ते तेषां प्रत्यक्षविरु-. वादिनां वचसि वचने । स्वयं निजतपोऽनुष्ठितं शीतलविहारित्वे न निन्दन्ति, अन्यान् निन्दापयन्तीति प्रत्यक्षविरुद्धमिति गाथार्थः ॥
इत्थं ज्ञाते जीवोपदेशमाह -
जत्थ व तत्थ व विहियं सोहणभावेण भव्वणुद्वाणं ॥ मा निन्दावसु सड्ढे तवाहयं जीव उवएसो ॥ २१९ ॥
व्याख्या - यत्र वा तत्र वा पार्श्वस्थादिसमीपे, विहितं - कृतं, शोभनभावेन - प्रशस्तान्तः करणेन, भव्यानुष्ठानं लष्टक्रियां, 'मा' इति निषेधे, निन्दापय-त्याजय, श्रावकान् श्राद्धान्, तपआदिकम. -उपवासपौषधादिकं, जीव ! आत्मन् ! उपदेशः शिक्षा, तब इतिशेषः, इति गाथार्थः ॥
पार्श्वस्थादिसमीपे कृततपोनिन्दापन विचारस्त्रिंशत्तमोऽधिकारः ॥ एकत्रिंशत्तममाह
सावयजणस्स धम्मस्स फंसया के वि बिंति चेहहरे ॥ पासत्थाईविहिए नो सक्काराइयं कुज्जा ।। २२० ॥
व्याख्या - श्रावकजनश्य, धर्मस्य दानादेः, 'फंसय'त्ति देशी भाषायां भ्रंशकाः, केप्येके, ब्रुवते - भणन्ति चैत्यगृहे- जिनसदने पार्श्वस्यावसन्नादिकुते, नो नैव, सत्कारादिकं वस्त्राभरण -- पूजादिकं कुर्याद--विदध्याद्, इति गाथार्थः ॥
9
अन्यच्च ते एव यद्वदन्ति तत् सोत्तरं गाथया माह-
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129