Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७२) व्याख्या -. एकान्तेनैव सर्वथा तद्धर्मकथनं न नैव सुन्दरं भव्यम्, येन तासां साध्वीनां प्रतिषेधो निराकरणं सिद्धान्तदेशनाया आगमकथनस्य । फया प्रतिषेधः १ कल्पस्थितयैव गाथयेत्यर्थः ।
कल्पगाथामेवाह
कुसमयसुईणमहणो विषोहओ भवियपुंडरीयाणं ।
धम्मो जिणपन्नसो पकप्पजहणा कहेयत्वो ॥ १८३ ॥
व्याख्या-कुसमयश्रुतीनां कुसिद्धान्तमतीनां मथनो विनाशकः, विवोधको विकाशको भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतपत्राणां, धर्मो दानादिको जिनप्रज्ञप्तो मुनीन्द्रगदितः प्रकल्पयतिना निशीथज्ञसाधुना कथयितव्यो न पुनः साध्व्यति हृदयमिति गाथार्थः ॥
ननु यदि तासां स दीयते, ततो निन्धं तद्धर्मकथनमित्याह
संपइ पुणो न दिज्जइ पकप्पगंथस्स ताण सुत्तत्थो ।
जइया वि य दिज्जंतो तइया विय एस पडिसेहो। १८४ ॥ व्याख्या-साम्प्रतमधुना पुनः नैव दीयते वितीर्यते प्रकल्पग्रन्थस्य निशीथस्य तासा-आर्यिकाणां सूत्रार्थः सूत्रेण पद्धत्या साहितोऽर्थोऽभिधेयः मूत्रार्थ उभयमिति हृदयम् , यदापि वा दीयते वितीर्यते म्म, तदापि च तस्मिन्नपि काले एप व्याख्यानकरणलक्षणः प्रतिषेधो निवारणमिति गाथार्थः ॥
अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाहहरिभदधम्मजणणीए किंच जाइणिपवत्तिणीए वि ।
एगो वि गाहत्थो नो सिट्ठो मुणियतत्ताए ॥ १८५ ॥
व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदात्रीत्वेन प्रतिपन्नमात्रा किश्चाभ्युच्चये याकिनीप्रवर्तिन्या एतन्नाममहत्तरया न केवलपन्याभिरित्यपि शब्दार्थः, एकोऽपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया, तथा च " चक्किदुगं
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129