Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(25)
व्याख्या - मनम् - अभिप्रायः, एतत् पूर्वोक्तं । न रमते-न क्रीडति मानसे चित्ते । केषाम् ? गुरुगच्छद्धिशीलानाम आचार्य - तच्छिष्य समुदायोपचयकारणस्वभावानाम, सूरीणां प्रभूणाम, यस्मात् प्रकटं- गीतार्थविदितम्, व्यवहारस्य-छेदग्रन्थस्य ईदृशं - वक्ष्यमाणस्वरूपम्, वचनं भणितिः, इति गायार्थः ॥
तदेवाह -
A
जावज्जीवं गुरुणी सुद्धमसुडेण होइ कायव्वं । वसहे बारस वासा अट्ठारस भिक्खुणो मासा ॥ २०३ ॥
व्याख्या - यावज्जीवं - प्राणधारणमर्यादां ' क्वचिद् रागादौ ' इति सर्वत्र योज्यम्, गुरोः - आचार्यस्य, शुद्धाशुद्धेन - एषणीयानेषणीयेन [मकारोऽलाक्षणिकः ], भवति, कर्तव्यं विधेयं प्रतिजागरणमिति शेषः । वृषभे - उपाध्याये द्वादश वर्षाणि समाः, अष्टादश द्वौ नवकौ, भिक्षोः - साधोः, मासाः प्रतीताः । ततः परं यदि भन्यौ भवतः ततो लष्टम्, न चेत्ततः संबोध्यानशनं कार्यते, न चेदिच्छा समस्ति ततः शुद्धमेव दीयते न वशुद्धमिति सर्वज्ञमुद्रा । यदि तु दुर्विदग्ध एवं वदिष्यति क्रियते एवं यदि आचार्यादिगुणयुक्तो भवति, ततोऽसौ व्यहारगाथाभिः संबोध्यः
Acharya Shri Kailassagarsuri Gyanmandir
पोक्खरिणी आयारे आणयणा तेणगा य गीयत्थे । आयरियमि उ एए आहरणा होति नायव्वा ॥ १ ॥
सत्थपरिन्ना छक्काय-अहिगमो पिंडउत्तरज्झाए । रुक्खे व वसहो गावो जोहा सोही य पुक्खरिणी ॥ २ ॥
पुष्करिण्य आचारे आनयनं स्तेनकाश्च गीतार्थः । आचार्ये तु एते दृष्टान्ता भवन्ति ज्ञातव्याः ॥ १ ॥
शस्त्रपरिज्ञाषट्रकायाधिगमः पिण्डोत्तराध्ययने । वृक्षश्च वृषभगावः योधाः शुद्धिश्च पुष्करिणी || २ ||
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129