Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४५) केषामित्याह- सियालणंतिकमाईणं' तत्र शृगालः प्रतीतः, 'गतिके' ति देशीभाषया कोलिकः, आदिशब्दाच्छेषजन्तुपरिग्रहः । मकारोत्रालाक्षणिक इति गाथार्थः ॥
पुनरपि संघस्य पूज्यतां दर्शयन्निदमाह
उग्घाडणाभएणं सुयकेवलिणावि मनिओ संघो। पुवाणं परिवाडी देहि भणंतो महासइणा ॥ ८४ ॥
व्याख्या-उद्घाटना समयभाषया सङ्घारहिष्करणलक्षणा तस्या भयं तेन, अनुस्वारश्च पूर्ववत्, श्रुतकेवलिना चतुर्दश पूर्वधरेण न केवलं तीर्थकरेणेत्यपेरर्थः मानितः पूजितः सङ्घः प्रतीतः पूर्वाणां समयप्रसिद्धानां परिपाटी पाठरूपां देहि प्रयच्छ “शिष्यभ्यः' इत्यध्याहारः, भणन् ब्रुवन् , किंविशिष्टेन ? महातिशयिना अचिन्त्यशक्तिना । अत्र च " कगचजतद० " इत्यादिना तकारलोपे “ रवरे प्रकृतिलोपसन्धयः" इत्यनेन तकारस्येकारलोपे रूपमिदं । इदमिह तत्त्वं-किल श्रीवीरस्वामिनो मोक्षं गतस्य दुष्कालो महान् संवृत्तः । ततः सोपि स धुवर्ग एकत्र मिलि.तो भणितं च परस्परं, कस्य किमागच्छति सूत्रं ? यावन्न कस्यापि पूर्वाणि समागच्छन्ति । ततः श्रावकैविज्ञाते भणितं तैः, यथा कुत्र साम्प्रतं पूर्वाणि सन्ति । तैर्भणितं- भद्रबाहुरवामिनि । ततः सर्वसङ्घसमुदायेन पालोच्य प्रेषितः तत्समीपे साधुसङ्घाटकः, गत्वा प्रणम्य च तेन भणिताः सूरयो यथा सुशिष्याणां पूर्वपार्टी प्रयच्छत । तैरुक्तं-साम्प्रतं वयं महाप्राणध्यानसक्ताः ततो न तां दातुं शक्ता इत्युक्ते समागतः साधुसङ्घाटकः । संघसमीपे कथितं । तद्वचनतो भूयोऽपि प्रेषितः, यः संघवचो न कुरुते तस्य किं विधीयते ? एवं गत्वा त । तथा कृते तैरुक्तं यः सङ्घो भणति तदहं करोमीत्युक्ते प्रेषितानि स्थूल भद्रप्रमुखाणि सुशिष्याणां पञ्चशतानीति गाथार्थः ।।
__ननु न वयं संघ निराकुर्मः, किन्वास्माकीन सङ्घो नान्येषामिति ये मन्येरन् तान्प्रत्याह--
अम्हाणं चिय संघो अन्नाणं न उण रक्खणाभावा । नेवं वो जुत्तं छउमत्थाणं जओ भणियं ॥ ८५॥
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129