SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) केषामित्याह- सियालणंतिकमाईणं' तत्र शृगालः प्रतीतः, 'गतिके' ति देशीभाषया कोलिकः, आदिशब्दाच्छेषजन्तुपरिग्रहः । मकारोत्रालाक्षणिक इति गाथार्थः ॥ पुनरपि संघस्य पूज्यतां दर्शयन्निदमाह उग्घाडणाभएणं सुयकेवलिणावि मनिओ संघो। पुवाणं परिवाडी देहि भणंतो महासइणा ॥ ८४ ॥ व्याख्या-उद्घाटना समयभाषया सङ्घारहिष्करणलक्षणा तस्या भयं तेन, अनुस्वारश्च पूर्ववत्, श्रुतकेवलिना चतुर्दश पूर्वधरेण न केवलं तीर्थकरेणेत्यपेरर्थः मानितः पूजितः सङ्घः प्रतीतः पूर्वाणां समयप्रसिद्धानां परिपाटी पाठरूपां देहि प्रयच्छ “शिष्यभ्यः' इत्यध्याहारः, भणन् ब्रुवन् , किंविशिष्टेन ? महातिशयिना अचिन्त्यशक्तिना । अत्र च " कगचजतद० " इत्यादिना तकारलोपे “ रवरे प्रकृतिलोपसन्धयः" इत्यनेन तकारस्येकारलोपे रूपमिदं । इदमिह तत्त्वं-किल श्रीवीरस्वामिनो मोक्षं गतस्य दुष्कालो महान् संवृत्तः । ततः सोपि स धुवर्ग एकत्र मिलि.तो भणितं च परस्परं, कस्य किमागच्छति सूत्रं ? यावन्न कस्यापि पूर्वाणि समागच्छन्ति । ततः श्रावकैविज्ञाते भणितं तैः, यथा कुत्र साम्प्रतं पूर्वाणि सन्ति । तैर्भणितं- भद्रबाहुरवामिनि । ततः सर्वसङ्घसमुदायेन पालोच्य प्रेषितः तत्समीपे साधुसङ्घाटकः, गत्वा प्रणम्य च तेन भणिताः सूरयो यथा सुशिष्याणां पूर्वपार्टी प्रयच्छत । तैरुक्तं-साम्प्रतं वयं महाप्राणध्यानसक्ताः ततो न तां दातुं शक्ता इत्युक्ते समागतः साधुसङ्घाटकः । संघसमीपे कथितं । तद्वचनतो भूयोऽपि प्रेषितः, यः संघवचो न कुरुते तस्य किं विधीयते ? एवं गत्वा त । तथा कृते तैरुक्तं यः सङ्घो भणति तदहं करोमीत्युक्ते प्रेषितानि स्थूल भद्रप्रमुखाणि सुशिष्याणां पञ्चशतानीति गाथार्थः ।। __ननु न वयं संघ निराकुर्मः, किन्वास्माकीन सङ्घो नान्येषामिति ये मन्येरन् तान्प्रत्याह-- अम्हाणं चिय संघो अन्नाणं न उण रक्खणाभावा । नेवं वो जुत्तं छउमत्थाणं जओ भणियं ॥ ८५॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy