Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ६२ )
उम्मदेसणाए संतस्स छायणाए मग्गस्स ।
बंधइ कम्मरयमलं जरमरणमणंतयं घोरं ॥ - "
"
Acharya Shri Kailassagarsuri Gyanmandir
इति मत्वा ' मासकल्पानुष्ठानाकरणे मासकल्पविहारिणो वयम् ' इति न युज्यते संसारभीरूणां वक्तुम् । इति गाथाभावार्थ: ॥
ननु यदि विहारः कर्तुं न शक्यते तत इत्थं वसतिसंक्रमोऽस्तु इत्याह
मुद्धजणविप्पयारणमेतं वसहीए संकमोवि इमो । जड़ नो अडति तेसुं गिहेसु तो होज सहलो सो ॥१३६॥
व्याख्या मुग्धजन विप्रतारणमात्रं प्राकृतलोकहृदयावर्जनार्थं वसतेरगारस्य संक्रमोऽप्यन्यवमार्तगमन व (छ)लं तत्कृतं विहरणमित्यपिशब्दार्थः, अयं मुग्धजनप्रतीतः । ननु किं सर्वथापि साधूनां वसतिसंक्रमः सफलो न भवति ? इत्याह-यदि नो नैत्र अन्ति गच्छन्ति तेषु गृहेषु येषु प्रथममासकल्पे आहारादि गृहीतं ततो भवेद् जायेत सफलः श्रेयान् स माससंक्रमः । विहारो हि गृहस्थप्रतिबन्धनाहाराशुद्धिर्माभूदिति विधीयते, इत्थमकरणे तदवस्थित एव स दोषः । इति गाथार्थः ॥
अत्रेवार्थेऽभ्युच्चयमाह -
खेत्तासईए रोहाइएसु तह वुडवासकाले य ।
संकमकरणं भणियं जहा तहा नेय तं जुत्तं ॥ १३७ ॥
व्याख्या- ' खेत्तासईए'ति । क्षेत्राभावे मासकल्पादियोग्यग्रामाद्यभावे रोधादिकेपु, तत्र रोधः परचक्रेण नगरवेष्टनम्, आदिशब्दान्मार्गादौ अस्वास्थ्याग्रहः, । तथा वृद्धवासकाले च वक्ष्यमाणे च संक्रमकरणमन्यान्यवसतिगमनलक्षणं भणितमुक्तं व्यवहारादिषु । तत्र हि क्षेत्राद्यभावे एकत्र निवासे नववसतयो न चाहारार्थं, गृहपङ्क्तयथ ऋतुबद्धवर्षाकालार्थं भणिताः, तदभावे एकैकहानिक्रमश्वोभाभ्यां भणितः । स च विशेषतो व्यवहारादवसेयः । यथा तथा स्वाभिप्रायेण नैव नच तत्संक्रमकरणं युक्तं संगतम् इति गायार्थः ॥
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129