Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६६) पासत्थाई सावयजणस्स नो होंति वंदणिज्जाउ । तं नो, जम्हा कत्थइ नो दीसइ भणियमेवेति ॥ १६० ॥ व्याख्या-पार्श्वस्थादयः समयप्रसिद्धाः श्रावकजनस्य श्राद्धलोकस्य नो नैव भवन्ति जायन्ते वन्दनीया नमस्कर्तव्याः । तुः पूरणे, तद्वन्दनाकरणं नो मैव, यस्मात्कुत्रापि कस्मिंश्चिदपि शास्त्रे नो दृश्यते नावलोक्यते भणितमुतम्, एवं पूर्वोक्तमकारेण, इतिर्वाक्यसमाप्ताविति गाथार्थः ॥ यद्भणितं तत्पूर्वपक्षं गाथा येनाह वंदावंदविभागो संविग्गेयरजईण सव्वत्थ । जं पुण दसणसत्तरिवयणं भणियं न तस्सस्थि ॥ १६१ ॥ अंगेसु तह अणंगेसु छेयग्गंथे मु पयरणेसु च । संवाओ ता कह तं भवे पमाणं पमाणीणं ॥ १६२ ॥ व्याख्या-वन्द्यावन्यविभागो नमस्करणीयानमस्करणीयविशेषो भणितः संविग्नेतरयतीना-सुविहितेतरसाधूनां सर्वत्र सर्वस्मिन् सूत्रे इति शेषः । यत्पुनर्दर्शनसप्तिकावचनं-तन्नामप्रकरणगदितं " समणाण सावयाण य अवंदणिज्जा जिणमयंमि” इत्यादिलक्षणं न नैव तस्य सप्ततिकामणि तस्यास्ति विद्यते अङ्गेषु आचारादिषु अनङ्गेषु औपपातिकादिषु छेदग्रन्थेषु निशीथशास्त्रादिषु प्रकरणेषु उपदेशमालादिषु, चः समुच्चये संवादस्तत्सदृशभणनं, तस्मात् कथं केन प्रकारेण तत्सप्ततिकाभणनं भवेजायेत प्रमाणं व्यस्थापकं प्रमाणिनां यथावस्थितवस्तुवेदिनाम् । इति गाथार्थः ॥ किम् ? इत्यत आह पयरणवयणं जम्हा संवइयं वलु भवे प्रमाणमिहं । सिद्धत वयणहिं नो इहरा अइपसंगाओ ॥ १६३ ॥ व्याख्या-प्रकरणवचनमर्वाचीनसाधुविरचितं शास्त्रं यस्मात् संवदितमेवावितथं, खलुरवधारणे, स च योजित एव भवेज्जायेत प्रमाणं व्यवस्थापकम्, इह मौनीन्द्रप्रवचने अनुस्वारः पूर्ववत् सिद्धान्तवचनैरागमभणितैः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129