Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) " स्थादीनां प्रतीतानां ततः कथं केन प्रकारणोपदेशमालायां श्रीधर्मदास गणिन एवंनाना कर्त्रा न वारितं निषिद्धं वारितं पुनर्निषिद्धमन्येषां शाक्यादीनां परतीर्थिकानां प्रणमनमित्यादिवचनतः प्रकटं प्रसिद्धम्, आदिग्रहणात् " उज्झाaणत्थुणणभत्तिरागं व सकारं सम्माणदाणं विणयं च वज्जेइ इति दृश्यं सुबोधं चेति गाथार्थः ॥ पराभिप्रायमाशङ्कयाह- आलावो संवासो इचाईयं तु मुणिजणस्सेह | एवं नो जइ तो तेवि पुत्र्वभणिया उपासत्था ।। १६८ ।। व्याख्या - आलापः स्तोकभणनं, संवासस्तु एकत्रनिवसनमित्यादिकं पुनर्मुनिजनस्यैव साधुलोकस्यैव; तेन हि तेषां निष्कारणं न कर्तव्यं वन्दनादिकम् कारणे तु कर्तव्यमिति प्रागेव चर्चितम् । आदिग्रहणेन "वीसंभो संथवो पसंगो य हीणायारेहिं समं सव्वजिणिदेहिं पडिकुट्ठो । " इति दृश्यम् । तथा च तत्रोक्तं बलाद्यतिर्व्याकुलीभवतीति । किञ्चेतः “ श्रावकधर्मं वक्ष्ये " इति भणता वृत्तिकृता भिन्नाधिकारिता दर्शिता । स च वंद पडिपुच्छइ - " इत्यादिगाथाभिरुक्तः सूत्रे, एवमित्थं नो नैव यदि, ततस्तेपि य एवं प्रतिवादपन्ति पूर्व्वभणितान् " सुत्तत्थपोरिसी न करेइ " - इत्यादिकात् द्वितीयेऽधिकारे पार्श्वस्थाः शिथिला उपलक्षणत्वादवसन्नादयश्चेति गाथार्थः ॥ 66 ततः किमित्याह कं वदंतु वराया धम्मत्थी सावया तओ तुन्भे । सयभमडियाउ मूढा अन्नेवि मा भमाडेह ॥ १६९ ॥ व्याख्या - कं साधुं वन्दन्तु नमस्कुर्व्वन्तु वराका अनुकम्पनीया धर्म्मार्थिनो वृषलम्यटाः श्रावकाः श्राद्धाः । तस्मात् 'तुब्भे'त्ति यूयं स्वयमात्मना भ्रान्ता नष्टसबोधा मूढा ज्ञानविकला अन्यान् श्रावकादीन् 'मा' निषेधे ' भ्रमयत नष्टसद्बोधान्कुरुतेति गाथार्थः ॥ ननु यद्येवं ततः कोप्य वन्द्यो नास्ति इत्याह For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129