Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४-क) नुपजीवति । इति श्रुत्वा तु विगतसन्देही स्वस्थानं गतो, इति ।
इन्थं स्थिते जीवोपदेशमाहमलमइलवन्थदेहाण भावकप्पूरपूरपुन्नाणं । दढदेहाणं सूरीण भणसु मा किंपि पडिकुलं ॥ १४८ ॥
व्याख्या-मलमलिनवस्त्रदेहानां रजोविज्छायवसनशरीराणाम्, भावकर्पूरपरमार्थधनसारः संयम एव जीवसौरभ्यकर्तृत्वेन तस्य पूरः संघातस्तेन पूर्णा भृता पुण्या वा पवित्रास्तेषां, दृढदेहानामुत्तमसंहननानाम, सूरीणां प्रभूणाम, भण बहिः मेति निषेधे, किमपि न केवलं बहित्यपेरर्थः, प्रतिकुलमुल्लण्ठम्, इति गाथार्थः ॥
सूरिमलधरणविचारस्समाप्तस्त्रयोविंशोऽधिकारः ॥ इतचतुर्विंशतितमः प्रारभ्यतेअमुणियमुणीणचरणा केइ मज्जण्हकालसमयंमि । इत्थीण केवलाणं कहिंति धम्मं भावाभिरया ।। १४१ ।।
व्याख्या-अमुणितमुनीनचरणा अविदितयतीशचारित्राः, केऽप्येके, मध्याह्न. कालसमये प्रहरद्वयोर्ध्वम, कथयन्ति प्रतिपादयन्ति, धर्म श्रुतधर्मादिकम, कि वि. शिष्टाः ? भवाभिरताः संसारसक्ताः, इति गाथार्थः ।।
एतदपि न सङ्गनमित्याह
सिडन्तामयपडिपुन्न कन्नपुडयाण संमयं नेयं । जम्हा इय कहणंमी एए दोसा पसज्जंति ॥ १५० ॥
व्याख्या-सिद्धान्तामृतप्रतिपूर्णकर्णपुटकानां आगमसुधासंभृतश्रवणच्छदपत्राणाम, संमतमभिप्रेतम्, नेनि निषेधे, इदमित्थं धर्मकथनम्, यस्माद्, इत्येवम्, कथने प्रतिपादने, एते वक्ष्यमाणाः, दोषा दूषणानि, प्रसज्यन्ते प्रादुर्भवन्ति, इति गाथार्थः ॥
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129