Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्याणां विनेयानां सूबहूनामपि प्रभूतानां न केवलमेकस्य इत्यपिशब्दार्थः । एकाकित्वमेवासहायता । तुरेवकारायः । तस्मिन पुनरेकाकित्वे भवन्ति जायन्ते ये निर्दिष्टस्वरूपा दोषाः दूषणानि ते दोषाः सर्व एव समस्ताः मरेराचार्यस्य भवन्ति अनिवारितप्रसरा अनिषिद्धोदयाः । ते च " एगस्य कउ धम्मो "इत्यादिगाथातोऽवसेयाः । इति सार्द्धगाथाद्वयार्थः ॥ सूत्रेण कृतसंबन्धां गाथामाह-- किंच-तुच्छे गासच्छायणकज्जे जति सावयजणस्स । सुबहुंपि न उण सिस्साण बालिसा पोरिसिदुगं तु ॥१३२॥ व्याख्या--किंचेत्यभ्युच्चयार्थः तुच्छे अल्पे एकभवोपकारकारित्वात् , ग्रासाच्छादनकार्ये आहारवस्त्रनिमित्तं कथयन्ति श्रावकजनस्य श्राद्धलोकस्य सुबहपि प्रचुरतरं न पुनर्नैव शिष्याणां निजविनेयानां बालिशा अज्ञा पौरुषीद्वयं प्रसिद्धं तुः पूरणे इति गाथार्थः ।। ननु ते यद्येवं भणिष्यन्ति न वयं शास्त्राण्यवगच्छामः ततोऽवसन्नसमीपे विनेयान् पाठयामः, किमत्रासङ्गतमित्याह ससमयंभि परसमयंमि सयंपि जइ नो हवन्ति गहियत्था। ता अच्छंतु चिरंपि हु असढा जा हुंति पत्तट्ठा ॥ १३३ ॥ व्याख्या-स्वसमयपरसमये आत्मीयेतरराद्धान्ते स्वयमप्यात्मना न केवलं शिष्या इत्यपिशब्दार्थः । यदि नो नैव भवन्ति जायन्ते गृहीतार्था अवगताभिधेयास्ततः तिष्ठन्तु, आसतां चिरमपि मासाधिक, पूर्वोक्तम्, हुःपूरणे । अशठा अमायिनः, अन्यथा चोक्तं पञ्चकल्पे " उग्गममाइदोसा असेवमाणो विसोउमावन्नो । जम्हा दोसाययणउरंमि ठावेतु सो वसई ॥ पन्नरसुग्गमदोसा दस एसणदोस एए पणुवीसं । संजोयणा य पंच य एए तीसं तु अवराहा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129