Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५९)
व्याख्या -- सूत्रार्थाभ्यां प्रतीताभ्यां निष्पाद्य निष्ठितान् कृत्वा शिष्यान् क्षुल्लकान् एकस्थानस्थितो ग्रामाद्याश्रितो मुक्त्वा परिहृत्य मासविहारमेकत्र त्रिंशदिनावस्थितिरूपं यतो व्यवहारे पठनविधायुक्तम्
" वारसवासे गहिए उकालियं सरइ वरिसमेगं तु । सोलस उ दिट्ठि वा गहणं सरणं दस दुवेया ॥
'सर' त्ति परावर्तते स्थिरीकरणार्थम् । तथा तत्रैव " से जे गिण्डि धारइउं व जोगा थेराण ते दिति, सहायए उ गिव्हंति, ते ठाणठिया सुहेणं कि व थेराण करिति सव्वं " इत्यादि । तथा कृत्वा पौरुषीद्विकं समयप्रसिद्धम्, अयमाशयः -- यस्मिन् दिने ग्रामे गम्यते तस्मिन्नपि उत्सर्गतः सूत्र पौरुषीमर्थपौरुषीं कृत्वा गन्तव्यम्, न केवलमवस्थितैरन्यथात्वविधेः, तुः पूरणे ग्रामानुग्रामेण कोऽर्थः ? नैकमपि ग्राममपान्तराले मुक्त्वा गन्तव्यम्, ततो विहरेत् यायात् सुविहितो यतिर्निराशंस आहाराद्यभिलापरहितो निजकेन स्वीयेनोपकरणेन वस्त्रादिना सर्वेण समस्तेन गृहीतेनात्तेन, तथा समुच्चयार्थः, त्रिविधेन त्रिप्रकारण लाघवेन गुरुत्वप्रतिपक्षिणोपधिशरीरेन्द्रियाभिधानेन तत्रोपधिलाघवमत्यर्गलोपकरणं न ग्राह्यम् । शरीरलाघवं तु दुग्धद्रव्यादिभिः शरीरं नातीव प्रीणनीयम् । इन्द्रियलाघवं तु रागद्वेषाकरणतः शब्दादौ विहर्तव्यम् । इति सार्धगाथाद्वयार्थः॥
व्यतिरेके सार्धगाथाद्वयेन दोपानाह
एवन्ना उ करणे आणाभंगा व होंति ॥ १२९ ॥ पोरिसीयम भंगो बीयं ओसन्नपासपढणं तु । तइयं मिच्छावाओ तुरियमगीयाण सिस्साणं ॥ १३० ॥ सुबहूणवि एमागित्तणं तु तंमि य हवंति जे दोसा । ते सव्वे चिय सूरिस्स होंति अनिवारियप्पसरा ॥ १३१ ॥ व्याख्या - पौरुषीद्वयस्योत्तलक्षणस्य भङ्गोऽभावः एक आज्ञाभङ्गः, उत्तरत्र द्वितीयभणनाल्लभ्यते । द्वितीयमाज्ञाभङ्गकरणमवसन्न पार्श्वपठनं शिथिल - समीप सिद्धान्तादिश्रवणम् । तुः पूरणे । तृतीयं मिथ्यावादः - -असत्यभणनम्, अमासकल्पे मासकल्पवादात् । तुरीयं चतुर्थमगीतानां सूत्रार्थानभिज्ञानानां शि
For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129