Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
(५०) 'मायूरपिच्छनिर्मापिततैलेन म्रक्ष्यन्ते' इत्युक्ते नराधिपेन समादिष्टास्तदानयनाथ निजपुरुषाः, यावत्ते परिभ्रम्य समागता राज्ञः समीपे । कथितं च तैर्देव ! न कुत्रचिन्नीलकण्ठाङ्गरुहाणि सन्ति मुक्त्वा युष्माकं गुरून् । ते हि तानि सङ्गेिषु धारयन्ति, न च जीवन्तो मुश्चन्ति, इदमेव तेषां व्रतम् । राज्ञोक्तं, यद्येवं ततो घातयित्वा तान् समानयत पिच्छान् , परं भवद्भिस्तेषां निजचरणा न लगनीयाः, यतोऽस्माकं ते गुरवः । तत्र जीवितव्यतुल्यान् मूलगुणानाशयति, पादस्पर्शनसदृशोत्तरगुणरक्षार्थ गच्छानिर्गत्य ये पर्यटन्ति । तस्मादुत्तरगुणभङ्गेपि अशुद्धभक्ताभ्यवहारलक्षणे गच्छ एवासितव्यमिति ॥
इदानीं गुरुवचनाकरणे सिद्धान्तगाथामाहछहमदसमदुवालसेहिं मासद्धमासखमणेहिं ।
अकरितो गुरुवयणं अणंतसंसारिओ भणिओ ॥ ९८ ॥
उत्तानार्था । यदि पुनर्गच्छो गुरुश्च सर्वथा निजगुणविकलो भवति, तत आगमोक्तविधिना त्यजनीयः, परं कालापेक्षया योऽन्यो विशिष्टतरस्तस्योपसम्पद् ग्राह्या, न पुनः स्वतन्त्रेस्स्थातव्यमिति हृदयम् ॥
यत एवमतो जीवानुशिष्टिमाह
हेलाए विहाडियदोसपंजरे गच्छवासगुरुवयणे ।
जीव तुमं घिरचितं करेसु ता सिहरिसिहरं व ॥ ११ ॥
व्याख्या-हेलया लीलया — विहाडियं 'ति देशीभाषया विनाशिता दोषा रागादयस्त एव जीवशकुनिनिरोधकत्वात्पञ्जरं येन तस्मिन् गच्छवास. गुरुवचने उक्तलक्षणे जीव आत्मन् त्वं भवान् स्थिरं निश्चलं, अनुस्वारोऽत्र प्राकृतत्वाल्लुप्तः, चित्तं मानसं कुरु विधेहि । तस्मात्किमिव ? शिखरिशिखरमिव पर्वतशृङ्गमिव, वा उपमार्थः, स च दर्शित एव । अत्राधिकारद्वयेप्येतत्परस्परोपकारकत्वेनैकगाथयैवोत्क्षेपो निगमनं च कृतमिति गाथार्थः ।।
गच्छगुरुवचनात्यागविचारार्थी सप्तदशाष्टादशावधिकारौ समाप्तौ । इतः एकोनविंश उच्यते
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129