Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४९ )
-
व्याख्या —— संसारसम्भवाद भवोद्भूताव दुःखादसातात् यदि जीव ! त्वं भवानसि भवसि निर्विण्णः श्रान्तः, मेति निषेधे ज्ञानिनामागमज्ञानामवज्ञामवर्णवादादिरूपां कुरु विधेहि, तस्माद् भावप्रकाशकत्वेन दीपतुल्यानां प्रदीपसदृशानाम् । अयमभिप्रायः - ज्ञानवतामवज्ञादिकरणात् ज्ञानावरणीयं कर्म्म बध्यते, तथैव तथा दर्शनावरणीयं तेन च मोहनीयं मोहनीयेन चोदीर्णेनाष्टा कर्माणि ततश्च भवभ्रमणम् । एतच्च शतकभगवत्यादिषु सूत्रेषु प्रतीतमिति न वितन्यते । अतः सुष्ठुक्तं ज्ञानाद्यवज्ञातो भवदुःखमिति गाथार्थः ॥
ज्ञानाद्यवज्ञा विचारवर्णः षोडशोधिकारः समाप्तः ||
इदानीं सप्तदश उच्यते—
गच्छं गुरुवयणं विय चहउं केइ चरंति धम्मत्थी । तंपि न संगयमेयं जम्हा सुत्ते इमं भणियं ॥ ९६ ॥
व्याख्या - गच्छमाचार्यादिसमुदायं गुरुवचश्च सूरिभणितं, चियशब्दः समुच्चयार्थः, त्यक्त्वा परिहृत्य केऽपि केचन चरन्ति पर्यटन्ति धम्मार्थिनश्चारित्र - प्रयोजनाः, तदपि गच्छत्यागादिकं न केवलं पूर्वोक्तमित्यपिशब्दार्थः, न नैव सङ्गतं युक्तम्, एवं गच्छत्यागादिना यस्मात्सूत्रे उपदेशपदाख्ये इदं पुरोवर्ति भणितमुक्तमिति गाथार्थः ॥
सुर्द्धछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सपरसरजक्खपिच्छत्थघायपायाछिवणतुल्लो (१) ॥ ९७ ॥
व्याख्या -- शुद्धोञ्छादिषु यत्न उद्यमः तत्र शुद्धमा धाक र्म्माद्यदूषितं, उञ्छं तु वल्लादि, आदिग्रहणाच्छेषानुष्ठानग्रहः, गुरुकुलत्यागादिना गच्छतच्छिक्षापरिहारेणेह प्रवचने विज्ञेयो बोद्धव्यः । किंविशिष्टः १ सपरवेषेण (?) सरजस्काः तापसविशेषास्तेषां पिच्छानि मयूराङ्गरुहाणि तदर्थं घातो विनाशस्तत्र पादानां चरणानां ' अछिवणं' ति देशी भाषया स्पर्शनं तेन तुल्यः सदृश इति गाथार्थः ॥ भावार्थस्तु कथानकादवसेयः । तच्चेदं
किलैकस्य नरपतेरश्वाः प्रदीपनके मनाक् दग्धाः, क्षतानि च तेषां जातानि । ततो नरपतिना वैद्यः पृष्टः कथमेते भव्या भविष्यन्ति ? तेनोक्तं- यदि
७
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129