SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४९ ) - व्याख्या —— संसारसम्भवाद भवोद्भूताव दुःखादसातात् यदि जीव ! त्वं भवानसि भवसि निर्विण्णः श्रान्तः, मेति निषेधे ज्ञानिनामागमज्ञानामवज्ञामवर्णवादादिरूपां कुरु विधेहि, तस्माद् भावप्रकाशकत्वेन दीपतुल्यानां प्रदीपसदृशानाम् । अयमभिप्रायः - ज्ञानवतामवज्ञादिकरणात् ज्ञानावरणीयं कर्म्म बध्यते, तथैव तथा दर्शनावरणीयं तेन च मोहनीयं मोहनीयेन चोदीर्णेनाष्टा कर्माणि ततश्च भवभ्रमणम् । एतच्च शतकभगवत्यादिषु सूत्रेषु प्रतीतमिति न वितन्यते । अतः सुष्ठुक्तं ज्ञानाद्यवज्ञातो भवदुःखमिति गाथार्थः ॥ ज्ञानाद्यवज्ञा विचारवर्णः षोडशोधिकारः समाप्तः || इदानीं सप्तदश उच्यते— गच्छं गुरुवयणं विय चहउं केइ चरंति धम्मत्थी । तंपि न संगयमेयं जम्हा सुत्ते इमं भणियं ॥ ९६ ॥ व्याख्या - गच्छमाचार्यादिसमुदायं गुरुवचश्च सूरिभणितं, चियशब्दः समुच्चयार्थः, त्यक्त्वा परिहृत्य केऽपि केचन चरन्ति पर्यटन्ति धम्मार्थिनश्चारित्र - प्रयोजनाः, तदपि गच्छत्यागादिकं न केवलं पूर्वोक्तमित्यपिशब्दार्थः, न नैव सङ्गतं युक्तम्, एवं गच्छत्यागादिना यस्मात्सूत्रे उपदेशपदाख्ये इदं पुरोवर्ति भणितमुक्तमिति गाथार्थः ॥ सुर्द्धछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सपरसरजक्खपिच्छत्थघायपायाछिवणतुल्लो (१) ॥ ९७ ॥ व्याख्या -- शुद्धोञ्छादिषु यत्न उद्यमः तत्र शुद्धमा धाक र्म्माद्यदूषितं, उञ्छं तु वल्लादि, आदिग्रहणाच्छेषानुष्ठानग्रहः, गुरुकुलत्यागादिना गच्छतच्छिक्षापरिहारेणेह प्रवचने विज्ञेयो बोद्धव्यः । किंविशिष्टः १ सपरवेषेण (?) सरजस्काः तापसविशेषास्तेषां पिच्छानि मयूराङ्गरुहाणि तदर्थं घातो विनाशस्तत्र पादानां चरणानां ' अछिवणं' ति देशी भाषया स्पर्शनं तेन तुल्यः सदृश इति गाथार्थः ॥ भावार्थस्तु कथानकादवसेयः । तच्चेदं किलैकस्य नरपतेरश्वाः प्रदीपनके मनाक् दग्धाः, क्षतानि च तेषां जातानि । ततो नरपतिना वैद्यः पृष्टः कथमेते भव्या भविष्यन्ति ? तेनोक्तं- यदि ७ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy