________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८ ) किंविशिष्टः ? अनुवर्तनादियुक्तः-आनुकूल्यानुपघातसहितः, केषु ? पार्श्वस्थादिषु प्रतीतेषु तत्क्षेत्रे पार्श्वस्थादिप्रचुरग्रामादाविति गाथार्थः ॥ ।
पार्थस्थाद्यनुवर्तनावर्णनोऽयं पञ्चदशोऽधिकारः समाप्तः ।
पढइ नटो वेरग्गं इच्चाई दंसिऊण केइत्थ ।
नाणड्डाणमवन्नं कुणंति नेयं वियाणंति ॥ १२ ॥
व्याख्या-पठति नटो वैराग्यमित्यादि निदर्य कथयित्वा, आदि शब्दाद् " निविजजा य बहुजणो जेण पढिऊण तं तह सढो जालेण जलं समोयरइ " इति दृश्यं, सुगमं च, येऽपि स्तोका अत्र जिनप्रवचने, अत्र एकाराकारलोपे पूर्ववत रूपमिदम्, ज्ञानाच्यानां बह्वागमानामवज्ञामश्लाधादिरूपां कुर्वन्ति विदधति, नेति निषेधे, इमञ्च वक्ष्यमाणं विजानन्ति बुध्यन्त इति गाथार्थः ॥
तदेवाहनाणाहिओ वरतरं हणिोवि हु पवयणं पभावितो।
न य दुकरं करितो सुदृवि अप्पागमो पुरिसो ॥ १३ ॥ सुबोधार्था। तथाछठमदसमदुवालसहिं अबहुमुयस्स जा सोही । एत्तो बहुयरिया पुण हविज जिति(मि)यस्स नाणिस्स ॥१४॥ इयमपि सुगमा ।
ननुयद्येवं तर्हि पूर्वोक्तस्य व्याहतिः, सत्यं, तन्निन्दावाक्यमेवमसौ भण्यते; येन क्रियायामुयमं करोति, नचासौ गुणविकलः, कथमन्यथानन्तरगाथाद्वयोक्तं " नाणाहियस्स नाणं पूइज्जई-" इत्यादि च घटते ? इति ॥
अत्रैवार्थे जीवोपदिष्टिमाह - संसारसंभवाओ दुहाओ जइ जीव ! तंसि निविनो। मा नाणीणमवन्नं करेसु ता दीवतुल्लाणं ॥ १५ ॥
For Private And Personal Use Only