Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४६ ) व्याख्या - अस्माकमेव सङ्घ अन्येषामपरेषां न पुनः लक्षणाभावात् ज्ञानायसत्तातः, नैवमित्थं वक्तुं गदितुं युक्तं सङ्गतं छद्मस्थानामतीन्द्रियज्ञानाभाववतां यतो यस्माद्भणितमुक्तमागमे इति गाथार्थः ॥ तदेवाह - Acharya Shri Kailassagarsuri Gyanmandir परमरहस्समिसीणं सम्मत्तगणिपिडगभत्थ साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ ८६ ॥ व्याख्या - परमरहस्यं प्रधानतत्त्वं ऋषीणां साधूनां समाप्तगणिपिट - काभ्यस्तसारार्णा परिपूर्णद्वादशाङ्गज्ञाततत्त्वानां परिणामिकमाभ्यन्तरचित्तरूपं प्रमाणं व्यवस्थापकं निश्चयं व्यवहारप्रतिपक्षमवलम्बमानानामाश्रयताम् । इदमिह तत्त्वं - बहिर्वृस्याऽन्यथापि प्रवृत्तिर्भवतु, परिणामशुद्धौ ज्ञानादीनि निश्चयनयाद् भवन्त्येव । व्यवहारतस्तु ज्ञानदर्शने चारित्राभावेपि कस्यचिद भवतः कस्यचिन्नेति । 46 ववहारस्स उचरणे हयम्मि भयणा उ सेसाणं । इत्यादि वचनतः सिद्धमिदं केचित्सम्पूर्णानुष्ठानिनोऽपि संघमध्ये दृश्यन्ते तेषां ज्ञानादित्रयमप्यस्ति, अतो लक्षणाभावत्वस्य हेतोरसिद्धत्वात् सिद्धं विवक्षितसंघस्य गुणवत्त्वमिति गाथार्थः ॥ एवं स्थिते जीवोपदेशमाह - संघस्सोवरि वयणं किंपि मा भणसु जीव | पडिकुठं । जई तित्थंकरवयणं मणमि भावेण संपत्तं ॥ ८७ ॥ प्रकटा ॥ संघविचारवर्णनोऽयं चतुर्द्दशोऽधिकारः समाप्तः ॥ इतः पञ्चदशो भण्यते- सुविहियमिह मन्नंता अप्पाणं केइ मंदधम्माणं । खेत्सु इंति दूसिंति ते उ नेयं वरं जम्हा ॥ ८८ ॥ व्याख्या - सुविहितं सुयतिमिति मन्यमाना इत्थमध्यवस्यन्त आत्मानं स्वं केप्येके मन्दधम्माणां पार्श्वस्थादीनां क्षेत्रेषु तद्ग्रामादिषु 'इंति ' ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129