Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) पक्खपव्वस्स विभासा मज्झगाहा" पक्खस्स अट्ठमी खलु मासस्स पक्खियं मुणेयव्वं ।
अन्नपि होइअव्वं उवरागो चंदमुराणं ॥ पक्खपव्वस्स मज्झं अट्ठमी बहुलाइआ मासत्ति काउं मासस्स मज्झं पक्खियं किण्हचउद्दसीए विज्जासाहणोक्यारो ॥ आह-यद्येवं एगरायगहणं कायव्वं, दुरायं तिरायं वेति न वत्तव्यं । अत उच्यते चाउद (सी) गाहा
चाउद्दसिग्गहो होइ कोइ अहवावि सोलसिग्गहणं ।
वत्तं तु अणझंते होइ दुरायं तिरायं वा ॥"
इयं गाथा व्याख्यानाऽर्हा, परं न व्याख्याता कण्ठ्येत्युक्तम् । सर्वस्याप्येतस्य किंचिद् व्याख्यातस्यापि पूज्यकथितोऽर्थः कथ्यते-विद्यानां देवताअधिष्ठितमत्राणां, परिपाटि परावर्तनं, पर्वणि पर्वणि वक्ष्यमाणलक्षणे, चकारोऽवधारणे स च व्यवहितो योज्यः, ददत्येव अनेकार्थत्वाद्धातूनां कुर्वन्ति, आचार्याः सूरयः । पर्वस्वरूपमाह-मासार्द्धमासिकयोः पर्व पुनर्भवति मध्यं वक्ष्यमाणं, तु पुरणे । तदेवाह- पक्षस्य प्रतीतस्य अष्टम्येव तिथिलक्षणा, खलु अवधारणे, स च योजित एव, मासस्य पुनः प्रतीतस्य पाक्षिकमनिश्चितरूपं, यदि पुनरत्र चतुर्दशी पञ्चदशी वाऽभणिष्यत्ततो निश्चितं स्यात् । यत्तूक्तं चूर्णिकृता पाक्षिकव्याख्यानं कुर्वता-" मासस्य मज्झं पक्खियं किण्हपक्खस्स चउद्दसीए विजासाहणोवयारो" तत्सम्यग्नावगम्यते । तथाहि-यदि कृष्णचतुर्दशी पाक्षिकमित्युच्यते ततो 'विजासाहणोवयारो ' अत्र उपचारशब्दो नावबुध्यते, नहि उपचारशब्देन परिपाटिर्भण्यते स्त्रसमये परसमये । किञ्च-एवं व्याख्याने शुक्लचतुर्दशी पाक्षिकशब्दवाच्या न स्यात् ; भण्यते चैतन्मते शुक्लचतुर्दश्यपि पाक्षिकम् । पूज्यास्तु वदन्ति-उपचारशब्देन पूर्वसेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्यां पूर्वसेवा नूतनमत्र ग्रहणजपलक्षणा क्रियते, पाक्षिके च पञ्चदशीलक्षणे पटिपाटिः परावर्त्तनं विधीयते, इत्थं व्याख्याने पौर्णमास्यपि पाक्षिकं भवति, परिपाटी च घटते । शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतं कृष्णचतुर्दश्यां च स्फुटो मत्रो भवति, अतस्तत्र पूर्वसेवा । द्विरात्रत्रिरात्र साधकगाथाया अपि पूज्यव्याख्येयं-चतुर्दश्यां कृष्णायां ग्रहोऽभिनवविद्याग्रहणा
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129