Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०) तस्य फलमाह-नो निषेधे, लभते प्राप्नोति येन कर्मणोपार्जितेनेच्छितमभिलषितं लाभं धनधान्यादिकम् । अयमभिप्रायः-इयं माघमाला जिनपूजा न भवति भवति वा ? यदि न भवति, ततो निर्दोषा वारयन्तोपि यूयम् । भवति चेत् , ततो निश्चितं मद्वर्णितफलं भवतां हठादागच्छतीति गाथार्थः ॥
अत्रापि जीवोपदेशमाह
मा मा तुमं णिवारसु पूर्य रे जीव ! जिणवरिंदाणं ।
जइ सयलसोक्खवल्लीणमप्पणो महसि उल्लासं ॥ ३९ ॥ व्याख्या-मा मेति अत्यादरकरणाथ वीप्सानिर्देशो निषेधार्थः, त्वं भवान् निवारय निषेधय पूजां सपर्या, रे जीवेत्यामत्रणे, जिनवरेन्द्राणां सर्वप्रतिकृतीनाम् । यदीति स्वाभिप्रायसूचकार्थः, सकलसौख्यवल्लीनां समस्तसातलतानामात्मनो जीवस्य महसि वाञ्छस्योल्लासं वृद्धिमिति गाथार्थः ।।
तथा कोऽयं तवाभिनिवेशः? यदुत लौकिकं न क्रियते । अविरुद्धं तदपि विधीयते इति दर्शयन् विशेषावश्योक्तां गाथामाह
जं अत्थओ अभिन्नं अन्नत्था सहओ वि तह चेव ।
तं पि पओसो मोहो विसेसतो जिणमयट्टियाणं ॥ ४० ॥ व्याख्या-यत्किमप्यनवधारितरूपमर्थतोऽभिधेयेन अभिन्नमव्यतिरिक्तं अन्वर्थायुक्ताभिधेयात् शब्दतो वचनतोऽपि तथा चैवाभिन्नमेव तस्मिन् शब्दार्थाभिन्ने जिनवचनमाश्रित्य प्रद्वेषो मत्सरो मोहो मूढतेयं विशेषत आदरेण जिनमतस्थितानाम् । यथा
पञ्चैतानि पवित्राणि सर्वेषां धर्माचारिणाम् ।
आहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥-- इत्यादि । इति गाथार्थः ॥ सूत्रेणैव ससम्बन्ध गाथामाहकिंचाणुमयं हरिभद्दसूरिणो किंवि लोइयं जेण । भणियं बिठवणे विहिमागमलोगनीईए ॥ ४१ ।।
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129