Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२) जीवितशेषा च संवृत्ता। तां चैवं दृष्ट्वा पूर्वदत्तं पट्टरत्नं द्विती(या मतेन सर्वमाभरणवस्त्रादि तत्पार्थाद् गृहीत्वा राजादेशेन नियोगिभीनृपतेर्भाण्डागारे क्षिप्तम् । ततस्तस्यास्तं पराभवं मन्यमानायाः आर्तध्यानमभूत् । तत्परिणता च मृता सती शुनीत्वेनोत्पन्ना । अन्यदा ततः केवली समायातः। स भगवान् अन्तःपुरिकाभिः सपत्नीभिः कुन्तलदेव्या उत्पत्ति पृष्टः । भगवतापि वृत्तान्ते कथिते तासां संसारविरक्तिर्जाता। ततस्ताभिर्गत्वा दृष्ट्वाऽसौ शुनी सस्नेहं पुष्पचन्दनविशिष्टाहारदानादिभिः पूजिता । ततोऽस्या मण्डल्याः पूजादिकं संभ्रमं जिनमन्दिरं च दृष्ट्वा जातिस्मरणं सम्पन्नं बोधिश्च । क्षामितायाश्च ताभिः कषायोपशमे आराधना जाता । इति कुन्तलदेवीकथानकम् ॥ इत्थं स्थिते जीवोपदेशमाह
ता जइ कुणंति केह तुह वयणं देसु तेसु उवएसं ।
अह नो कुणंति रे जीव रमसु नो जत्थ रागाइ ॥७६॥
व्याख्या-तस्माद्यदि कुर्वन्ति विदधति केपि तव भवतो वचनं वाक्यं, देहि प्रयच्छ तेषु वचनकर्तृषु उपदेश-'मा सक्लेशं कुरुत भो भव्याः' इत्येवंरूपवाक्यपद्धति; अंथेति विकल्पार्थः, नो नैव कुर्वन्ति तेषु रे जीव ! भो आत्मन् ! रमस्व क्रीड, नो नैव यत्र देवभवनकरणादौ रागादयः आदिशद्धादद्वेषादिग्रह इति गाथार्थः ॥
विधिचैत्यकरणवर्णनोऽयं समाप्तो द्वादशोऽधिकारः ॥ इदानीं त्रयोदशः
केणवि गुणेण दंसणपभावगं पिच्छिऊण आयरियं ।
केई कसायनाडिया तंपि हीलंति मूढमई ॥ ७७ ॥
व्याख्या-केनापि अनिर्दिष्टनाम्ना गुणेन जीवस्य निर्मलीकरणस्वभावेन दर्शनप्रभावकं सर्वज्ञशासनप्रकाशकं प्रेक्ष्य-अवलोक्याचार्य सूरि केपि न सर्वे, कषायनटिताः क्रोधायभिद्रुताः तमपि-दर्शनप्रभावकं न केवलमन्यमित्यपिशब्दार्थः, हीलयन्ति तिरस्कुर्वन्ति मूढमतयः कुबोधाच्छादितधिषणा इति गाथार्थः ॥
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129