Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४१ )
क्षपकर्षेर्दुष्करतपःकरण।कृष्टमानसैस्तैर्भगवान् पृष्टः । स्वामिन्! कियती कर्म्म - निर्जरणा क्षपकर्षिणा कृतेति ? भगवतापि कथितः पूर्वोदितो भवादिलक्षणः संक्लेशाद्वृत्तान्तः, इतरस्य च तद्विपरीतः । श्रुत्वा विस्मितमानसो लोको भगवन्तमभिवन्द्य स्वस्थानं गतः ।। " इति क्षपकर्षिकथानकम् ॥
46
Acharya Shri Kailassagarsuri Gyanmandir
इदानीमागमज्ञकथानकम् –
एकस्मिन् गच्छे आगमज्ञः सूरिरभवत् परं क्रियायां मन्दादरः । अन्योऽपि तत्रैव क्षुल्लको ज्ञानवान्, ततस्तमनुयोगधरमाचार्य मुक्त्वा क्षुल्लकसमीपे श्रावका सिद्धान्तश्रवणं कुर्वन्ति, बहुमानं च तदुपरि । एवं व्रजति काले आचार्यस्य क्षुल्लकोपरि मत्सरो जातः, अहो ! दुरात्माऽयं यो ममैवमवज्ञां करोतीति । अन्यदा च दुर्निवारत्वाद्यमभयानां तन्मत्सरानिवृत्त्या पञ्चत्वं गतः सूरिः, उत्पन्नश्च पन्नगत्वेनोद्याने । तस्मिंश्च साधवः तत्क्षुल्लकसहिताः समागताः । ततः स्वाध्यायभूमौ स क्षुल्लकचलितः, दृष्टस्तेनामर्षेण, घावितः क्षुल्लकसम्मुखं, वारितो बृहद्यतिभिः। ततः कञ्चित्कालं छन्नः स्थितः, स्वाध्यायार्थं भूयोपि क्षुल्लकः (केन) स्वाध्यायभूमौ (गम) नं कुर्व्वता पुनः स सर्पोऽवलोकितः । आगत्य च तद्तान्तं गुरोर्न्यवेदयत् । ततस्तैः सामान्येनैवमवगतं - कश्विद्विराधितश्रामण्यः साधुद्वेषी भविष्यत्येष इति । अन्यदा तस्मिन् विषये केवली समायातः, पृष्टश्व तद्रुतान्तः कथितः, ततस्तेषां साधूनां संवेगो जातः । केवलिवचनाच्च गत्वा तदुद्यानं पूर्व्वभववृत्तान्तमात्रेद्य क्षामितोऽसौ । तस्य च क्षापणे कृते सति जातिस्मरणं समुत्पन्नं, संवेगं च गतः, आराधकश्च जातः ॥ " समाप्तमागमज्ञ सूरिकथानकम् ॥
साम्प्रतं विनय रत्नकथानकं, तच्च प्रतीतत्वान्न कथ्यते । स चात्र विनय - रतो गदितो य उपदेशमालायामुदायिनृपवधकः, तस्य विनयो निष्फलो जातः । यतोऽसौ तादृशं पापं कृत्वा नरकं गतः । इति विनयरतकथानकम् ॥
•
इतः कुन्तलादेवीकथानकं भण्यते - “कस्यचिन्नरपतेः कुन्तलदेव्याभिधामा पट्टराज्ञी बभूव । सा च शेषराज्ञीमत्सरेण सव्र्व्वज्ञमन्दिरे तत्कृतपूजातः स्नान विलेपनवासधूपवस्त्राभरण। मिषरथयात्रास्नात्रादिकां पूजां जिनप्रतिकृतीनां कारितवती । एवं व्रजति कालेऽशुमकम्र्मोदयात्तस्याः कश्विदसाध्य रोगो जातः
६
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129