Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३९ )
विधिं जल्पन्तु, अविधौ तु विधिं जल्पन्तो न भान्ति इत्यस्यार्थस्यानुयाख्यापनार्थ वीप्साभणनं विधिविधिरिति, नहि वचनमात्रेण विधिर्भवति, किन्तु शास्त्रोक्तप्रकारेण, स च " अहिगारी तु गिहत्थो - " इत्यादि सर्व्वजनप्रतीत एवेति । किमिति यस्मात्सूत्रे निशीथे भणितमुक्तमेवं वक्ष्यमाणन्यायेन इतिर्वा - क्यसमाप्ताविति गाथार्थः ॥
तदेवाह -
जं अज्जियं समीपल्लएहिं तवनियमबं भगुत्तीहिं । माहुतयं कलहंता उलिंचह सागपत्तेहिं ॥ ७४ ॥
266
अस्यार्थो निशीथोक्तकथानकादवसेयः । तचेदमर्थतः “ केनचिद् ब्राह्मणेन महादारिद्यभराक्रान्तेन देशान्तराण्यटता कश्चिद् दृष्टप्रत्ययः सिद्धो दृष्टः । ततः क्षितितलन्यस्तमस्तकममाणपूर्व्वकं विज्ञप्तोऽसौ यथा भगवन् ! त्वत्मसादेन मम दारिद्र्यं यास्यतीति । तेनापि विनीतं दुःखितं च मत्वा प्रत्युक्त:यथा वत्स ! मम पृष्ठतो लग्नः समागच्छ, येनापनयामि ते दारिद्र्यम्, एवमुक्त्वा नीतोऽसौ तेन रसकूपिकाद्वारसमीपे भणितश्चैवम् - अस्यां रसकूपिकायां सिद्धः सुवर्णरसस्तिष्ठति, स च त्वया शमीवृक्षपत्रपुटकैरनिर्विण्णेन स्तोकं गृहीत्वा तुम्बकमिदं पूरणीयम् भृते चास्मिन् वस्त्राचा लनेन मम संज्ञा विधेया, येनाकर्षयाम्यहम्, ततः सुवर्णं कृत्वा दारिद्र्यस्य जलाञ्जलिं दापयिष्यामीति भणित्वा तुम्बकमर्पयित्वा क्षिप्तोऽसौ । वस्त्रया तन्मध्ये तेनापि तथाकृते आकृष्टोऽसौ, गदितश्व - वत्स ! दुरापोऽयं रसः, अतः प्रयत्नेन रक्षणीयः, तेनापि भणितमेवमिति । ततश्चलितौ द्वावपि नगरसम्मुखं, ततो भूयोभूयस्तेन तथैव तस्याटवीमध्ये समागच्छता शिक्षा दत्ता । सच पुनः पुनर्भणनेन रुष्टः सन् शाकवृक्षपत्रपुटेन तं रसमेकवारेण भूमौ विससर्ज । ततश्च सिद्धेन भणितो हंहो मन्दभाग्य ! किमिदं चेष्टितं, अचिन्त्यचिन्तामणिकल्पमाहात्म्यं सुवर्णरसं प्राप्यैवं त्यजसि, अयोग्योऽसि सम्पदस्त्वमिति भणित्वा समीहितं स्थानं गतः सिद्धः । सोपि विलक्षवदनोऽपरिपूर्णेच्छः स्वगृहं प्राप्तो विविधाधिव्याधीनाञ्च भाजनमिति दृष्टान्तः ॥
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129