Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) " व्याख्या - तत्सर्व्वज्ञा बलिकृतगृहीतं सिक्थं जनप्रतीतं यस्य कस्यचिदनिर्दिष्टनान्नः शिरसि मस्तके दीयते स्थाप्यते, प्रशाम्यन्ति उपशमं यान्ति तस्य शिरसि सिक्यविधातुर्व्याधयो रोगाः, किंविशिष्टाः ? इत्याह- पूर्वोत्पन्नाः चिरप्ररूढाः, नवा नूतना न भवन्ति न जायन्ते, अन्याः पूर्व विलक्षणा: कियात्कालं यावद ? इत्याह- षण्मासं जनप्रतीतं तथा च तत्रैवं - " तं आढगं तंदुलाण सिद्धं देवमल्ले राया वा रायामच्चे वा " इत्यादियावत्, " तं तु सित्थं जस्स मत्थर बुझइ तस्स पुव्वुप्पन्ना वाहीओ वसमंती " त्यादि । अयमभिप्रायःयदि राद्धं न स्यात्तत्सिक्थमिति नामणिष्यत्, तच्च सिक्थं लवमात्रमिति वाच्यं तत्रत्यग्रन्थव्याहते: । तथाहि तत्र दुब्बलिखंडिय" इत्यादि सर्व्वं निष्पादन विधिप्रतिपाद्योक्तं- तत्र “ सिद्धवलिं काऊणेति " । अत्र सिद्धशब्देन रन्धनमेव वाच्यं, न पुनर्निष्पन्नविधेः ( धिः ) सर्व्वस्य पूर्व्वप्रतिपादितच्चात्, तस्मात् स्थितमंत्र सिद्धो बलिः सर्व्वज्ञपुरतो विधीयते इति गाथार्थः ॥ सिद्धबलिविचारलक्षणः समाप्तोयं दशमोऽधिकारः । अधुना एकादशो विधीयते— उस्सग्गविहंडियसुद्धबोहपसरा भांति एवन्ने । पासत्थाइसमीवे सुत्ताईयं न घेतव्वं ॥ ६७ ॥ व्याख्या - उत्सर्गेण सामान्योक्तविधिना, ' विहंडिय ' ति देशीशब्दो विनाशार्थः, ततो विनाशितः शुद्धबोधप्रसरः प्रधानमत्यवकाशलक्षणो येषां ते भणन्ति जल्पन्ति एवं वक्ष्यमाणन्यायेनान्येऽपरे, तदेवाह - पार्श्वस्थादिसमीपे, तत्र पार्श्वस्थ उक्तलक्षणः, आदिशब्दादवसन्नादिग्रहः, तेषां निकटे सूत्रादिकम्, आदिशब्दादर्थादिग्रहः, न ग्रहीतव्यं न स्वीकर्त्तव्यमिति गाथार्थः ॥ अत्रोत्तरं - तमवि न छेयगंधाणुसारिवयणं जओ जहं दिस्स । भणियं निसीहगंथे उस्सग्गववायजलाहीम्म || ६८ ॥ व्याख्या - तदपि सूत्रादिनिषेधकरणं न केवलं पूर्वोक्तमित्यपि शब्दार्थः, न नैव छेदग्रन्थानुसारि वचनं - उत्साहकशास्त्रसंवादि भणनम्, यस्मा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129