Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) मणं मउयं ।'-इति वचनात् । शयनं स्वापो दिवसस्य वासरस्य मध्ये । तदवस्थिती कारणं विनेति सर्वत्र यथासंबंध योजनीयम् । एषणाशुद्धिमागमोक्तस्वरूपां न करोति न विदधाति । अस्या एव साधनायाह-अनेकसाधुषु प्रचुरयतिषु, येन यस्मात् कारणात्, पञ्चदश इति संख्यार्थः, दोषा आधाकर्मादयः । अत्र चाध्यवपूरको मिश्रदोषमध्ये क्षिप्त इति पञ्चदश । परमार्थतस्तु षोडशापि भवन्ति जायन्ते । अयमभिप्रायः- येषु गृहेषु प्रभूता यतिसंघाटका भिक्षार्थ प्रविशन्ति तेषु तत्तद्रव्यापेक्षयकस्मिन्नपि गृहे इत्यन्यगृहापेक्षया वा दीनापेक्षया च षोडशापि आधाकर्मादयो भवन्ति । उपलक्षणं चैते, उपधिप्रमाणातिरिक्ताविधिपरिभोगादयोऽन्येऽपि वाच्या इति पादोनगाथाचतुष्टयार्थः ।
यत एवमतः सपादगाथया जीवोपदेशमाह
तम्हा ववहारणयं सरंतेण रे जीव ! ॥२१॥ तए णिचं कायव्वं तत्थ तेत्तियं ताण ।
जेण नियधम्मवुड्डी जायइ ण हु पदुस्संति ॥२२॥
व्याख्या-तस्मात्कारणाद् व्यवहारनयं निश्चयनयेतरं सरता गच्छता स्मरता वा चित्ते धारयता रे 'जीव' इत्यामन्त्रणं त्वया भवता नित्यं सर्वकालं कर्तव्यं विधेयम् । तत्र पार्श्वस्थादिक्षेत्रे तावन्मात्रमुक्तस्वरूपं तेषां पार्श्वस्थादीनां, येन यस्मानिनधर्मवृद्धिः स्वचारित्रोपचयो जायते प्रादुर्भवति । नच नैव ते पार्श्वस्थादयः प्रद्विषन्ति रुष्यन्तीति सपादगाथाऽर्थः ।
समाप्तः पार्श्वस्थवन्दनादिप्रतिपादको द्वितीयोऽधिकारः । साम्प्रतं तृतीयं गाथात्रयेणाह
पक्खपडिक्कमणकए विवयंति केइ णेय जाणंति । णियधम्मधणं अम्हे हारेमो उभयहा जेण ॥२३॥ सत्यभणिपि जत्तो आयरिअं पुवसरिपवरेहिं । नो जुज्जइ काउं अणवत्था जेण तकरणे ॥२४॥ जंपि हु पुव्वसूरीहिं णिच्छियं तंपि धम्मनिरयाणं । म हु णिच्छइउं जुज्जइ छउमत्थाणं विसेसेणं ॥२५॥
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129