Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २७ )
व्याख्या - यदपि पिण्डविशुद्धिकथनं -आधाकर्मादिदोषोज्झितभक्तभणनं
श्राद्धानां श्रावकाणां देशितं कथितं समये सिद्धान्ते, तदपि च गीतार्थानां यतिसामाचारीकुशलानां केषाञ्चित्, तकारस्य च लोपः प्राकृतलक्षणेन, दीर्घत्वं चेकारस्य पूर्ववत् नपुननैव सर्वेषां सामान्येनेति गाथार्थः ॥ ३० ॥
"
यदि यतेरित्थं तर्हि श्रावण किं कर्त्तव्यं ? इत्याह
विहवाणुसारओ पुण सङ्केणं संजयाण दायव्वं । गुणविरहिआणमुचियं सगुणाण पुणो सुभत्तीए ॥ ३१ ॥
व्याख्या - विभवानुसारतो निज द्रव्यौचित्येन पुनः श्राद्धेन श्रावकेण संयतेभ्यः साधुभ्यः “ छट्ठीविभत्तीए भण्णः चउत्थी " इति लक्षणाचतुर्थी, अत्र दातव्यं देयम् । किमविशेषेण ? इत्याह-गुणविरहितानां ज्ञानादिगुणशून्यानामुचितं तद्योग्यं, सगुणानां पुनर्विशिष्टज्ञानादिवतां भक्त्या आन्तरप्रीत्या इति गाथार्थ:
: 11
4
' सगुणानां भक्त्या इत्युक्तम्, अतः के ते गुणाः ? अत आहतेय गुणा दंसणाई, विजुया वा संजुया वा सन्वेसिं । पुज्जा कप्पा इसुं गंथेसु जेणिमं भणियं ||३२||
ते पुनर्ये पूर्व्वसूचिताः, चः पुनरर्थः, गुणा दर्शनादयस्सम्यक्त्वादयः आदिशब्देन ज्ञानादिग्रहः । ननु यद्यमी गुणाः ततः किं असमुदिताः समुदिता वा पूज्याः १ अत आह - वियुताः पृथक् स्थिताः, संयुता एकत्र स्थिताः, वाशब्दः समुच्चयार्थः सर्व्वेषां समस्तानां पूज्याः पूजनीयाः कल्पादिषु, आदिशब्दान्नशादिग्रहः, ग्रन्थेषु शास्त्रेषु यस्मादिदं वक्ष्यमाणं भणितमिति गाथार्थ: ।।
तदेवाह -
दंसणनाणचरितं तव विणयं जत्थ जत्तियं जाण जिrपन्नतं भक्तीए प्रयए तत्थ तं भावं ॥ ३३॥
व्याख्या - दर्शनज्ञानचारित्रतपोविनयं यत्र साध्वाद यावन्मात्र जानीयादवबुध्येत, किमविशेषेण ? नेत्याह- जिनमज्ञतं सर्वज्ञोक्तं भक्त्या सर्व्वादरेण पूजयेदयेत् तत्र यत्यादौ तं सम्यक्त्वादिकं भावम् । गुणवत्सु तत्र दर्शनं सम्यक्त्वं,
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129