Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२) क्रियते ततः सन्देहोऽपि स्यात् , परं तन्न मध्यस्थामृतरसतृप्तानां मनांसि पीणयति एवमन्यशास्त्रान्तरोक्तमपि मध्यस्थैर्भूत्वा विचारणीयं, तत्वं तु सर्वज्ञा विशिष्टश्रुतविदो वा विदन्ति । श्रावकापेक्षया तु पञ्चदश्यपि विशेषेणोक्ता । तथा चावश्यककचूमा " सव्वेसु कालपब्बेसु विसिट्ठो जिणमए तवो जोगो । अट्टमी पन्नरसीसु णियमेण हवेज पोसहिओ॥" सामान्यतस्तुतेषामपि भगवत्यादाविदमुक्तं- " चाउद्दसट्टमुदिट्टपुन्नमासीसु णं पडिपुन्नपोसहं समणु पालेमाणेत्ति" इति समपञ्चभावनायुक्त गाथार्थः ॥ यद्येवं ततः किम् ? इत्याहतम्हा रे जीव ! तुमं मनसु धम्मत्थमप्पणो एवं । तं कुण जं आयरियं जं सत्थे तस्स सद्दहणं ॥२६॥ व्याख्या--तस्मात्कारणात् रे जीवेत्यात्मन् त्वं भवान् मन्यस्व जानीहि धर्मार्थ क्षान्त्यादिनिमित्तमात्मनो जीवस्य एवं वक्ष्यमाणन्यायेन, तत् कुरु विधेहि, यत् पाक्षिकादिकमाचरितमासेवितं पूर्वाचार्यैरिति गम्यते यत् शास्त्रे सिद्धान्ते तस्य शास्त्रोक्तार्थस्य श्रद्धानमेतदिति । अयमभिप्रायः-शास्त्रो तं निश्चितमपि यन्नासेवितं पूर्वपुरुषैः केनचित्कारणेन तदन्यथा न क्रियते तदाचरणाभङ्गात्, तत्कृतं तु क्रियते, यथा बहुगुणं भवति तथा त एवजानते इति गाथार्थः॥ समर्थितः तृतीयः पाक्षिकविचारणलक्षणोधिकारः । इदानीं चतुर्थमाह अन्ने सिद्धंतमहोयहिस्स गंभारिमं अयाणंता । वंदणतियं दार्विति नेय बुझंति भणियावि. ॥२७॥ व्याख्या--अन्ये अपरे सिद्धान्तमहोदधेरागमरत्नाकरस्य गाम्भीर्यमल्पशेमुष्यज्ञातमध्यत्वमजानाना अनवगच्छन्तो वन्दनकत्रिकं कृतिकर्मत्रयं दापयन्ति । नैव नच बुध्यन्तेऽवगच्छन्ति भणिता अपि न केवलमभणिता इत्यपिशब्दार्थः। आगमज्ञैरितिशेष इति गाथार्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129