Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'तत्र ' संज्ञिद्वारव्याख्याने, चः पुनरर्थः, प्रथम स्थापनं प्रथम न्याससमारोपणमिति यावत्, 'भगन्ति' जल्पन्ति — समयविदः ' सिद्धान्तज्ञः । 'पूर्व ' प्रथमं क्व न्यसनं ? ' रथे ' जिनस्यन्दने अनुयानाधिकाराद् उक्तलक्षणाद्धेतोरिति गाथार्थः। स्यान्मत-कथमिदं ज्ञायते ? यदुतास्यायमर्थो न पुनर्मयोक्तः, अत आह जइ पुण पइट्टअत्थो हवेज्ज तो महुरणयरिगेहेसु । मंगलपडिमाणंपि हु तुम्ह मया पावइ पइट्टा ॥ व्याख्या-यदि पुनरिति पराभिप्रायाश्वासनार्थः, प्रतिष्ठालक्षणोऽर्थोऽभिधेयो ' भवेत् : जायेत ततो ' मथुरानगरीगेहेषु ' मथुराभिधानपत्तनसदनेषु मङ्गलप्रतिमानामपि, न केवलं तव संमतानामित्यपिशब्दार्थः, हुः पूरणे, 'युष्माकं ' भवतां ' मताद् अभिप्रायान् — प्राप्नोति' भवति प्रतिष्ठा भवत्संमता । अत्राप्यस्य शब्दस्य विद्यमानत्वादित्यभिभायः । मङ्गलपतिमाश्चेह ता उच्यन्ते, यासामकरणे गृहस्योपद्रवादिकं भवति । यथात्र देशरूट्या गृहद्वारस्योपरि विनायकमूर्तिर्वास्तुविद्योपदेशात् क्रियते, तथा मथुरायां गृहे गृहे पार्धनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते; यदि न क्रियन्ते ततो गृहाणां पतनादिकं भवति । तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यगुरूपणावसरे-“महुराए नयरीए जिणपडिमाओ गिहे गिहे पइट्टविनंति । " प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतम् , न हि तासां मिथ्यादृष्टिभिस्तव मम संमतं प्रतिष्ठाविधानं क्रियते । एतदिहाकूतं-अस्य शब्दम्यात्र न्यसनमेव वाच्यम् । किंच-प्रथमशब्दस्य नरर्थक्यं प्रामोति, न ह्येक स्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते, येन तद्व्युच्छिन्नये प्रथमशब्दोपादानं क्रियते । अस्मत्पक्षे तु प्रथमं रथारोपणं संभवत्येव । पूज्यास्तु व्याचक्षते-अत्र करोतिभणनेऽपि कारापणं दृश्यं, ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः । यथा उमास्वातिवाचकोक्ताऽऽर्यायामस्थां-- "जिनभवनं जिन विम्बं जिनपूनां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥" . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129