Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 178
________________ सहपत्रिकासम्बन्धी पूर्वपदादी ग्रन्थकता ५२४ म्यायागमानुसारिणीवृत्त्यलङ्कतम् [ सप्तम उभयोभयारे सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्गः [ ] इति, स तदवस्थ एव, बहूनां सम्बन्धिनामेकसम्बन्धभावात्, वागादिगवाद्यभिधानवत् व्यवस्थानाभावात् सर्वस्य सर्वाकालः' इत्युक्त्वा पुनरत्र यो दोषश्वोदितः 'सङ्करप्रसङ्गः' इति स तदवस्थ एव दुष्परिहारः। बहूनां , सम्बन्धिनामेकसम्बन्धभावादिति हेतुः, बहवो हि सम्बन्धिन एकसम्बधीभूताः, ततस्तेषां सङ्करः, ३४७-१ वागादिगवाद्यभिधानवत् , यथा 'गौः' इत्युक्त वाग्-दिग्-भू-रश्म्यादिभिरेकस्य गोशब्दस्य वागादिशब्दपर्यायत्वात् तत्तदात्मासौ तत्तदर्थप्रतिपादनात् तत्तत्सम्बन्धात् 'अमुष्यैवेदं सम्बन्धि' इति निर्धार्य व्यवस्थापयितुमशक्यत्वात् सर्वेषां दशानामिष्टः कारणकार्याधारः समवायोऽपि तथाधेयो द्रव्यत्वेनेव गुणत्वकर्मत्वा १ "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥” इति अनेकार्थसङ्ग्रहे हेमचन्द्राचार्यविरचिते, श्लो०६॥ २ दृश्यतां पृ० ७८९ पं. ७ ॥ ३ सत्तानिराकरणप्रस्तावेऽपि प्रसङ्गागतः समवाय आचायश्रीमल्लवादिना इतः परं महता प्रचर्चेन निराकृतः । पूर्वपक्षिरूपेण प्रशस्तमतिमुद्दिश्य चायं विवादो ग्रन्थकृता विहित इति पूर्वापरसन्दर्भपर्यालोचनया प्रतिभाति । प्रशस्तमते मग्रहणपूर्वकमेतादृशः समवायसम्बन्धी पूर्वपक्षः तत्त्वसङ्ग्रहपञिकायामपि समवायपरीक्षावसरे उद्धृतः कमलशीलेन । एतावास्तु विशेषः - तत्त्वसङ्ग्रहपञ्जिकायां प्रशस्तमते मग्राहमुद्धृतः समवायसम्बन्धी ग्रन्थः प्रशस्तपादभाष्ये समवायनिरूपणे सम्पूर्णतया उपलभ्यते, एतच्च निम्नलिखितप्रशस्तपादभाष्यतत्त्वसङ्ग्रहपञ्जिकापाठावलोकनेन व्यक्तीभविष्यत्यत्रैव टिप्पणे । तत्त्वसङ्ग्रहे वैशेषिकाभिमतषट्पदार्थपरीक्षायां बहुत्रोद्धृतः पूर्वपक्षः प्रशस्तपादभाष्ये दृश्यत इत्यपि ध्येयम् । नयचक्रे तु समवायपरीक्षायामुद्धृतस्य पूर्वपक्षस्य कश्चिदंशः प्रशस्तपादभाष्ये उपलभ्यते, कश्चित्तु नोपलभ्यते । अत एवं सम्भाव्यते-वैशेषिकसूत्रोपरि प्रशस्तमतिविरचितायाः [सम्प्रति लुप्तप्रायायाः] टीकाया एव मलवादिना उद्धृतः स्यात् पूर्वपक्षः, तत्त्वसङ्घहे तु प्रशस्तपादभाष्यादिति । विशेषजिज्ञासुभिर्द्रष्टव्यं पृ० ५१२ टि० ७ । “न च संयोगवन्नानात्वम् , भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैकः समवाय इति । यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न, आधाराधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येष्वेव द्रव्यत्वम् , गुणेष्वेव गुणत्वम् , कर्मखेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्श nmom नात् । इह' इति समवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्यव्यञ्जकशक्तिभेदादाधाराधेयनियमः इति ।" इति प्रशस्तपादभाष्ये समवायनिरूपणे । अस्य श्रीधरभट्टकृता न्यायकन्दली व्याख्या-“किमयमेक आहोस्विदनेकः? इत्यत्राह-न च संयोगवन्नानात्वमिति । यथा संयोगो नाना नैवं समवायः । कुतः ? इत्यत्राह-भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । यथा 'सत् सत्' इति ज्ञानस्य लक्षणस्य सर्वत्राविशेषादवैलक्षण्याद् विशेषे भेदे लक्षणस्य प्रमाणस्याभावाच्च सर्वत्रैको भावस्तद्वत् 'इह' इति प्रत्ययस्य लक्षणस्य सर्वत्रावैलक्षण्याद् भेदे प्रमाणाभावाच्च सर्वत्रैकः समवायः । उपसंहरति-तस्मादिति । चोदयति-योकः समवाय इति । समवायस्यैकत्वे य एव द्रव्यत्वस्य पृथिव्यादिषु योगः स एव गुणत्वस्य गुणेषु कर्मत्वस्य च कर्मसु । तत्र यथा द्रव्यत्वस्य योगः पृथिव्यादिष्वस्तीति तेषां द्रव्यत्वं तथा तद्योगस्य गुणादिष्वपि सम्भवात् तेषामपि द्रव्यत्वम् । यथा च गुणत्वस्य योगो रूपादिष्वस्तीति रूपादीनां गुणत्वं तथा तद्योगस्य द्रव्यकर्मणोरपि सम्भवात् तयोरपि गुणत्वं स्यात् । एवं कर्मखपीति पदार्थानां सङ्कीर्णता दर्शयितव्या । समाधत्ते -नेति । न च पदार्थानां सङ्कीर्णता । कुतः ? आधाराधेयनियमात् । न समवायसद्भावमात्रेण द्रव्यत्वम् , किन्तु द्रव्यत्वसमवायात्, द्रव्यत्वसमवायश्च द्रव्येष्वेव न गुणकर्मसु, अतो न तेषां द्रव्यत्वम् । एवं गुणकर्मस्वपि व्याख्येयम् । एतत् सङ्ग्रहवाक्यं विवृणोति- यद्यप्येकः समवाय इत्यादिना । स्वतन्त्र इति, संयोगवत् सम्बन्धान्तरेण न वर्तत इत्यर्थः । व्यक्तमपरम् । पुनश्चोदयति-एवमादि कस्मादिति । द्रव्येष्वेव द्रव्यत्वं वर्तते गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमित्येवमादि कस्मात् त्वया ज्ञातमित्यर्थः । उत्तरमाह - अन्वयव्यतिरेकदर्शनादिति । द्रव्यत्वनिमित्तस्य प्रत्ययस्य द्रव्येष्वन्वयो गुणकर्मभ्यश्च व्यतिरेकः । गुणत्वनिमित्तस्य प्रत्ययस्य गुणेष्वन्वयो द्रव्यकर्मभ्यश्च व्यतिरेकः । तथा कर्मत्वनिमित्तस्य प्रत्ययस्य कर्मखन्वयो द्रव्यगुणेभ्यश्च व्यतिरेको दृश्यते । तस्मादन्वयव्यतिरेकदर्शनाद् द्रव्यत्वादीनां नियमो ज्ञायते । अस्य विवरणं सुगमम् । सम wwwwwww wamma MWWW~ www.mmmmmm WW Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403