Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 292
________________ ६३८ न्यायागमानुसारिणीवृत्यलङ्कतं [अष्टम उभयनियमारे विधिः । नन्विदमेव विधिना वाचकत्वेऽनुमानं शब्दस्य । यदन्यत्वेऽपि न सामान्य 'अन्यत्वेऽपि न सामान्य-भेद-पर्यायवाच्यनुत् , अविरोधात्' इति । किं कारणमनारभ्यम् ? विधिः । विधिना हि सामान्योपसर्जनं विशेषं शब्दोऽभिदधानो विरोधाभावात् तानपि गमयति तदङ्गभावाद् १ दिङ्गागेन प्रमाणसमुच्चयवृत्तौ यदभिहितं तदत्र भोटभाषानुवादतः संस्कृते परिवोपन्यस्यते । तच्च यथायोगमत्रानुसन्धेयम् "तत्र अन्यत्वेऽपि न सामान्यभेदपर्यायवाच्यनुत् ॥ २५ ॥ अन्यत्वे तुल्येऽपि सामान्य-भेद-पर्यायशब्दानामर्थ शब्दो नापोहते। कुत इति चेत्, अविरोधात् । 'पर्यायशब्दस्य तावदपोह्यस्तुल्यः, युगपदप्रयोगात् । खार्थश्च प्रतिक्षेप्तं न युक्तः । सामान्यशब्देनापि स्वभेदेष्वर्थान्तरापोहो भेदशब्देन न नानुमन्यते अर्थित्वात् । यथा शिंशपा न पलाशादि एवं घटाद्यपि न । एतेन *सामान्यसामान्यशब्दार्थाप्रतिक्षेपोऽप्युक्तः । एवं सामान्यशब्दः स्वार्थमभिमतविषये स्थापयन् भेदशब्देन भेदभेदशब्देन वा कथं 'नोपेक्ष्यते ? एवमविरोधात् सामान्यादिशब्दा पोहो न युज्यते । समूहश्च तथार्थान्तरवाचकः । एवं च सामान्यविशेषशब्दयोः स्वार्थसामान्ये प्रवर्तमानयोद्वयोर्बहूनां वा तद्विशिष्टार्थान्तरवाचकत्वं यथापूर्वोक्तवदुपपद्यते । आह च .. 'तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन नोज्झितः। नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः ॥२६॥ अनेकमपि सामान्यं भेदेनाव्यभिचारिणा। उपात्तं न तयोस्तुल्या विशेषणविशेष्यता ॥ २७ ॥ [इति संग्रहश्लोकी Psvi] ... किं पुनरत्र कारणं येन मेदशब्दो भेदान्तरशब्दार्थमपोहत इति चेत् , भेदो भेदान्तरार्थ तु विरोधित्वादपोहते । भेदार्था हि शब्दाः परस्परविरोधिनः सामान्यार्थापहारित्वाद् राजपुत्रवत् । ततः परस्परार्थं न सहन्ते, यथायं [ वृक्षः] शिंशपेति शिंशपाशब्दो वृक्षशब्देन सह प्रयुक्तो धवादिभ्यो वृक्षत्वमाच्छिद्य स्वविषये स्थापयन् । एवमितरत्रापि । एवं तावद् 13भेदशब्द एकद्रव्यापहारित्वाद् भेदान्तरशब्दार्थमपोहते [इति ] युज्यते । .. अथ घटादिकमसम्बद्धं सामान्यान्तरभेदार्थ कुतोऽपोहत इति चेत्, यस्मात् ____सामान्यान्तरमेदार्थाः स्वसामान्यविरोधिनः ॥ २८॥ वृक्षशब्देन तु घटादीनां पार्थिवत्वाद्यपहाराद् विरोधः । तेन तदपोहः क्रियमाणोऽनुमन्यते मित्रशत्रुवत् । अर्थतस्तत् तेनापोढमिति गम्यते । एतेन सामान्यान्तरभेदानां गुणादीनां तद्भेदानां च रूपादीनां सम्बद्ध सम्बन्धाद् मित्रमित्रशत्रुवद् ___1 पर्यायशब्दे (?) Psv | पर्यायशब्दस्तावत् तुल्यापोह्यः (?) PSV VT. | 2 न च स्वार्थप्रतिक्षेपो युक्तः (१) VT | 3 'अनुमन्यते' इत्यपि पाठोऽत्र स्यात् । 'अगृहीतो नास्ति' (?) Psv' | न सह्यते (?) Psv* ॥ 4 सामान्यसामान्यशब्दार्थप्रतिक्षेपः प्रत्युक्तः Psv'॥ 5 निवेशयन् (?)। प्रवर्तयन् (?)॥ 6'नापेक्ष्यते' इति Psv'मध्ये दृश्यते इत्यपि ध्येयम् ॥ 7 तत्त्वसं० पं० पृ० ३०७ । सन्मतिवृ०। तत्त्वार्थसिद्ध०३० पृ० ४१२ । शरिका पृ० ७२ ॥ 8 "अत्र भिक्षुणा पाशः शिंशपेति सामानाधिकरण्यं न भवतीति दर्शयतोक्तम्-भेदो भेदान्तरार्थ तु विरोधित्वादपोहते-इति । मेदशब्दा हि पलाशशिंशपादय एकं वृक्षत्वसामान्यमन्योन्यमपहृत्य राज्यमिव राजपुत्राः स्वविषये स्थापयन्तः परस्परविरोधिनो वर्तन्ते । तेनैकापोहेनैकः प्रवर्तमानः कथं तेन सामानाधिकरण्यं लभतामित्यर्थः ।"-शर्करिका पृ० ६९ । नयचक्र-वृत्ति. पृ० ६१३ पं०६, २७ ॥ 9 ततश्च (?)॥ 10 यथा Psy | 11 वृक्षत्वं व्यवच्छिद्य Psvi ॥ 12 स्थापयति (?)॥ 13 भेदशब्दे Psv' । मेदशब्देन...... शब्दार्थापोहो युज्यते' इत्यपि पाठोऽत्र स्यात् ॥ 14 °मपोहमानो युज्यते (?)॥ 15 अर्थाच्च तत् Psvin 16 'तेनापोह्यत इति गम्यते' इत्यपि पाठः स्यात् ॥ 17 'सामान्यान्तरभेदा गुणादयस्तद्भेदाश्च रूपादयः सम्बद्धसम्बन्धाद् मित्रमित्रशत्रुवद् मित्रशत्रुमित्रवच्चापोढा उपेक्षिताश्च वेदितव्याः' इत्यपि पाठोऽत्र भवेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403